________________
२५२
आवश्यक मूलसूत्रम्-१ज्ञानार्थं, तादर्थ्य चतुर्थी, तेषां हि भगवद्वदननिर्गत सामायिकशब्दं श्रुत्वा तदर्थविषयं ज्ञानमुत्पद्यत इति भावना, तत्तु ज्ञानं 'सुन्दरमङ्गुलभावानां' शुभेतरपदार्थानां 'उबलद्धी' त्ति उपलब्ब्येउपलब्धिनिमित्तमिति गाथार्थः ।। सा च सुन्दरमङ्गुलभावोपलब्धिः प्रवृत्तिनिवृत्त्योः कारणम् नि. (७४६) होइ पवित्तिनिवित्ती संजमतव पावकम्मअग्गहणं।
कम्मविवेगो य तहा कारणमसरीरया चेव ॥ वृ-शुभेतरभावपरिज्ञानाद्भवतः 'प्रवृत्तिनिवृत्ती' शुभेषु प्रवृत्तिर्भवतीतरेभ्यो निवृत्तिरिति, ते च प्रवृत्तिनिवृत्ती 'संयमतव' इति संयमतपसोः कारणं, तत्र निवृत्तिकारणेत्वेऽपि संयमस्य प्रागुपादानमपूर्वकर्मागमनिरोधोपकारेण प्राधान्यख्यापनार्थं, तत्पूर्वकं च वस्तुतः सफलं तपः, कारणान्यथोपन्यासस्तु संयमे सत्यपि तपसि प्रवृत्तिः कार्योत्यमुनाऽशेन प्राधान्यख्यापनार्थमेवेत्यलं प्रसङ्गेन, तयोश्च संयमतपसोः 'पावकम्मअग्गहणं' ति पापकर्माग्रहणं कर्मविवेकश्च, तथ 'कारणं निमित्तं प्रयोजनं यथासङ्घयम्, उक्तं च परममुनिभिः-'संयमे अणण्हयफले, तवे वोदाणफले' इत्यादि, अणण्हयः -अनाश्रवः वोदाणं-कर्मनिर्जरा, कर्मविवेकस्य च प्रयोजनम् 'असरीरया चेवे'ति अशरीरतैव, चः पूरणार्थः, इति गाथार्थः । साम्प्रतं विवक्षितमर्थमुक्तानुवादेन आहनि. (७४७) कम्मविवेगो असरीरयाय असरीरया अनाबाहा ।
होअणबाहनिमित्तं अवेयणमणाउलो निरुओ। वृ. 'कर्मविवेकः' कर्मपृथग्भावः एशरीरतायाः कारणम्, अशरीरता 'अनाबाहाए'त्ति अनाबाधायाः कारणं भवति, 'अनाबाधनिमित्तम् 'अनाबाधकार्य, निमित्तशब्दः कार्यवाचकः, तथा च वक्तारो भवन्ति-अनेन निमित्तेन-अनेन कारणेन मयेदं प्रारब्धम्, अनेन कार्येणेत्यर्थः, ततश्च भवत्यानाबाधकार्यम्, 'अवेदनः' वेदनारहितो, जीव इति गम्यते, स चावेदनत्वाद् 'अनाकुलः' अविह्वल इत्यर्थः, अनाकुलत्वाच्च नीरुग्भवतीति गाथार्थः ॥ नि. (७४८) नीरुयत्ताए अयलो अयलत्ताए य सासओ होइ ।
सासयभावमुवगओ अव्वाबाहं सुहं लहइ ॥ वृ-स हि जीवः नीरुक्तया अचलो भवति, अचलतया च शाश्वतो भवति, शाश्वतभावम्उपगतः किम् ? अव्याबाधं सुखं लभत इति गाथार्थः । इत्थं पारम्पर्येणाव्याबाधसुखार्थ सामायिकश्रवणमिति । गतं कारणद्वारं, प्रत्ययद्वारमधुना व्याख्यायत इति, आह चनि. (७४९) पच्चयनिक्खेवो खलु दव्वंमी तत्तमासगाइओ ।
भावंमि ओहिमाई तिविहा पगयं तु भावेणं ।। कृ.प्रत्यायतीति प्रत्ययः प्रत्ययनं वा प्रत्ययः, तनिक्षेपः-तन्यासः, खलुशब्दोऽनन्तरोक्तकारणनिक्षेपसाम्यप्रदर्शनार्थः, ततश्च नामादिश्चतुर्विधः प्रत्ययनिक्षेपो, नामस्थापने सुगमे, 'द्रव्ये' द्रव्यविषयस्तप्तमाषकादिः, आदिशब्दाद्धटदिव्यादिपरिग्रः, द्रव्यं च तत्प्रत्याय्यप्रतीतिहेतुत्वात् प्रत्ययश्च द्रव्यप्रत्ययः-तप्तमाषकादिरेव, तज्जो वा प्रत्याय्यपुरुष प्रत्यय इति 'भावम्मि' त्ति भावे विचार्यमाणेऽवध्यादिस्त्रिविधो भावप्रत्ययः, तस्य बाह्यलिङ्गकारणानपेक्षत्वाद्, आदिशब्दान्मनः पर्यायकेवलपरिग्रहः, मतिश्रुते तु बाह्यलिङ्गकारणापेक्षित्वान्न विवक्षिते, बहु चात्र वक्तव्यं तच्च नोच्यते, ग्रन्थविस्तरभयादिति, प्रकृतम्' उपयोगस्तु सामायिकमङ्गीकृत्य 'भावेणं'
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org