________________
उपोद्घातः - [नि.७४९]
२५३ ति भावप्रत्ययेनेति गाथार्थः ॥ अत एवाहनि. (७५०) केवलनाणित्ति अहं अरहा सामाइयं परिकहेई ।
तेसिपि पच्चओ खलु सव्वण्णू निसामिति ॥ वृ- केवलज्ञानी अहमिति स्वप्रत्ययादर्हन् प्रत्यक्षत् एव सामायिकार्थमुपलभ्य सामायिक परिकथयति, 'तेषामपि' श्रोतृणां गणधरादीनां हृद्गताशेषसंशयपरिच्छित्त्या प्रत्ययश्रः' अवबोधः सर्वज्ञ इत्येवंभूतो भवति, अस्मादेव यत्कैश्चिदुक्तं- सर्वज्ञोऽसाविति ह्येतत्तत्कालऽपि बुभुत्सुभिः। तत्ज्ञानज्ञेयविज्ञानरहितैगम्यते कथम् ?॥ इत्यादि, तद्ध्युदस्तं वेदितव्यम्, अन्यथा चतुर्वेदे पुरुष लोकस्य तद्व्यवहारानुपपत्तेः, विजृम्भितं चात्रास्मत्स्वयूथ्यैः प्रवचनसिद्ध्यादिषु, अतः सातप्रत्यया 'निशामयन्ति' शृण्वन्तीति गाथार्थः ।।
गतं प्रत्ययद्वारम्, इदानी लक्षणद्वारावयवार्थप्रतिपादनायाहनि. (७५१) नाम ठवणा दविए सरिसे सामण्णलक्खणागारे ।
गइरागइ नाणत्ती निमित्तं उप्पाय विगमे य ॥ वृ- लक्ष्यतेऽनेनेति लक्षणं-पदार्थस्वरूपं, तच्च द्वादशधा, तत्र नामलक्षणं लक्षणमितीयं वर्णानुपूर्वी, स्थापनालक्षणं लकारादिवर्णानामाकारविशेषः, द्रव्यलक्षणं ज्ञशरीराद्व्यतिरिक्तं यद्यस्य द्रव्यस्यान्यतो व्यवच्छेदकं स्वरूपं, यथा गत्यादि धर्मास्तिकायादीनाम्, इदमेव किञ्चिन्मात्रविशेषात्साद्दश्यसामान्यदिलक्षणभेदतो निरुप्यते-तत्र 'सरिसे' त्ति सादृश्यं लक्षणम्, इहत्यघटसदृशः पाटलिपुत्रको घट इति, 'सामन्नलकखणं' ति सामान्यलक्षणं यथा सिद्धत्वं सिद्धानां सद्रव्यजीवमुक्तादिधर्मैः सामान्यमिति, 'आगार'त्ति आक्रियतेऽनेनाभिप्रेतं ज्ञायत इत्याकारो-बाह्यचेष्टारूपः, स एवान्तराकूतगमकरूपत्वाल्लक्षणमिति, उक्तं च -
“आकारैरिङ्गितैर्गत्या, चेष्टया भाषितेन च ।
नेत्रवक्त्रविकारैश्च, गृह्यतेऽन्तर्गतं मनः ।।" इति, 'गइरानइ' त्ति गत्यागतिलक्षणं द्वयोर्द्वयोः पदयोर्विशेषणविशेष्यतया अनुकूलं गमनं गतिः प्रत्यावृत्त्या प्रातिकूल्येनागमनमागतिः, गतिश्चागतिश्च गत्यागती ताभ्यां ते एव वा लक्षणं गत्यागतिलक्षणं, तच्चतुर्धा-पूर्वपदव्याहतमुत्तरपदवहतमुभयपदव्याहतमुभयपदाव्याहतमिति, तत्र पूर्वदव्याहतोदाहरणम्- 'जीवे णं भंते ! नेरइए ? नेरइए जीवे ?, गोयमा ! जीवे सिय नेरइए सिय अनेरईए, नेरइए पुण नियमा जीवे' उत्तरपदवहतोदाहरणम्-‘जीवइ भंते ! जीवे जीवे जीवइ ?, गोयमा ! जीवइ ताव नियमा जीवे, जीवे पुण सिय जीवइ सिय नो जीवइ' सिद्धानां जीवनाभावादिति हृदयम्, उभयपदव्याहतोदाहरणम्-'भवसिद्धिए णं भंते ! नेरइए, नेरएइ भवसिद्धिए?, गोयमा भवसिद्धिए सिय नेरइए सिय अनेरइए, नेरइएवि सिय भवसिद्धिए सिय अभवसिद्धिए' उभयपदाव्याहतोदाहरणम्-जीवे भंते ! जीवे जीवे जीवो ?, गोयमा ! जीवे नियमा जीवे जीवेऽवि नियमा जीवे' उपयोगो नियमाजीवः जीवोऽपि नियामदुपयोग इति भावना । लोकेऽपि गत्यागतिलक्षणं --
'रूवी य घडोत्ति चूतो दुमोत्ति नीलोप्पलं च लोगंमि । जीवो सचेयणोत्ति य विगप्पनियमादयो भणिया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org