________________
उपोद्घातः - [नि.७३९]
२५१ कारणभेदसमुच्चयार्थ इति गाथार्थः ।। यदुक्तं-'संसारेस्यैकविध' मित्यादि, तदुपप्रदर्शनायाहनि. (७४०) अस्संजमो य एक्को अन्नाणं अविरई य दुविहं तु ।
अन्नाणं मिच्छत्तं च अविरती चेव तिविहं त ।। वृ. 'असंयमः' अविरतिलक्षणः, स ह्येक एव संसारकारणम्, अज्ञानादीनां तदुपष्टम्भकत्वादप्रधानत्वादिति, तथाऽज्ञानमविरतिश्च द्विविधं तु संसारकारणं, तत्राज्ञान-कर्माच्छादितजीवस्य विपरीतावबोध इति, अविरतिस्तु सावद्ययोगानिवृत्तिरिति, तथा मिथ्यात्वमज्ञानं चाविरतिश्चेव त्रिविधं तु संसारकारणं, तत्र मित्त्यात्वम्-अतत्त्वार्थश्रद्धानं, शेषं गतार्थम्, एवं कषायादिसम्पर्कादन्येऽपि भेदाः प्रतिपादयितव्या इति गाथार्थः ।।
उक्तमप्रशस्तं भावकारणम्, अधुना प्रशस्तमुच्यतेनि. (७४१) होइ पसत्थं मोक्खस्स कारणं एगदुविहतिविहं वा ।
तं चेव य विवरीयं अहिगारो पसथएणेत्थं ॥ बृ-भवति प्रशस्तं भावकारणं मोक्षस्य कारणमिति, तच्च 'एक' मित्येकविधं द्विविधं त्रिविधं वा, इदं पुनः 'तदेव' च संसारकारणम् असंयमादि विपरीततं द्रष्टव्यम्, एकविधं संयमः, द्विविधं ज्ञानसंयमौ, त्रिविधं सम्यग्दर्शनज्ञानसंयमा इति, 'अधिकारः' प्रस्तावः 'प्रशस्तेन' भावकारणेन ‘अत्र' सामायिकान्वाख्याने, मोक्षाङ्गत्वादस्येति । ततश्च प्रशस्त भावरूपं चेदं, कारणं च मोक्षस्य इति अधिकारभावनेति गाथार्थः ।। इत्थं कारणद्वारे अधिकार प्रदर्श्य पुनः कारणद्वारसङ्गतमेव वक्तव्यताशेषमाशङ्काद्वारेणाभिधित्सुराह - नि. (७४२) तित्थयरो किं कारण भासइ सामाइयं तु अज्झयणं ?।
तित्थयरनामगोत्तं कम्मं मे वेइयव्वंति ।। वृतीर्थकरणशीलस्तीर्थकरः, तीर्थं पूर्वोक्त, स 'किंकारणं' किंनिमित्तं भाषते सामायिकं त्वध्ययनं ? तुशब्दादन्याध्ययनपरिग्रहः, तस्य कृतकृत्यत्वादिति हृदयम्, अत्रोच्यते
'तीर्थकरनामगोत्रं तीर्थकरनामसझं, गोत्रशब्दः सञ्ज्ञायां, कर्म मया वेदितव्यमित्यनेन कारणेन भाषत इति गाथार्थः ॥ नि. (७४३) तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणाईहिं ।
बन्झइ तं तु भगवओ तइयभवोसक्कइत्ता णं ।। वृ- व्याख्या-पूर्ववत् ॥ नि. (७४४) नियमा मनुयगतीए इत्थी पुरिसेयरोव्व सुहलेसो ।
आसेवियबहुलेहिं वीसाए अन्नयरएहिं ।। वृ-पूर्ववदेव । इत्थं तीर्थकृतः सामायिकभाषणे कारणमभिधायाधना गणभृतामाशङ्काद्वारेण तच्छ्रवणकारणं प्रतिपादयन्नाहनि. (७४५) गोयममाई सामाइयं तु किंकारणं निसामिति ?।
नाणस्स तं तु सुंदरमंगुलभावाण उवलद्धी ।। वृ- गौतमादयो गणधराः 'किंकारणं तु' किंनिमित्तं किंप्रयोजनमित्यर्थः, सामायिक 'निशामयन्ति' शृण्वन्ति, अत्रोच्यते-'नाणस्स'त्ति प्राकृतशैल्या चतुर्थ्यर्थे षष्ठी, ततश्च ज्ञानाया
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org