________________
आवश्यक मूलसूत्रम् - १.
क्षपणविषया च, इयं च कालतो यावत्कथिका च भवति, चशब्दादित्वरा च भवति, एतदुक्तं भवति चारित्रार्थमाचार्याय कश्चिद्वैयावृत्त्यकरत्वं प्रतिपद्यते, स च कालत इत्वरो यावत्कथिकश्च भवतीति गाथासमासार्थः ॥ साम्प्रतमयमेवार्थो विशेषतः प्रतिपाद्यते तत्रापि सन्दिष्टेन सन्दिष्टस्योपसम्पद्दातव्येति मौलिकोऽयं गुण इति एता भवत्वादुपसम्पद इति, अतः अमुमेवार्थमभिधित्सुराहनि. (७००)
२४०
संदिडो संदिहस्स चेव संपझई उ एमाई । चउभंगो एत्थं पुन पढमो भंगो हवइ सुद्धो ॥
वृ- 'सन्दिष्ठो' गुरुणाऽभिहितः सन्दिष्टस्यैवाचार्यस्य यथा अमुकस्य सम्पद्यतां उपसम्पदं प्रयच्छत इत्यर्थः, एवमादिश्चतुर्भङ्गः, स चायं तद्यथा - सन्दिष्टः सन्दिष्टस्योक्त एव, सन्दिष्टः असन्दिष्टः असन्दिष्टस्य-न तावदिदानीं गन्तव्यं न चामुकस्येति, तत्र पुनः प्रथमो भो भवति शुद्धः, पुनः शब्दस्य विशेषणार्थत्वात् द्वितीयपदेनाव्यवच्छित्ति-निमित्तमन्येऽपि द्रष्टव्या इति गाथार्थः ॥ साम्प्रतं वर्त्तनादिस्वरूपप्रतिपादनायाह
नि. ( ७०१ ) अथिरस्स पुव्वगहियस्स वत्तणा जं इहं थिरीकरणं । तस्सेव पएसंतरणट्टस्सऽनुसंधणा थडणा ॥
नि. (७०२)
गहणं तप्पढमतया सुत्ते अत्थे य तदुभए चेव । अत्थग्गहणंमि पायं एस विही होइ नायव्वो ।
वृ-गाथाद्वयं निगदसिद्धमेव। नवरं प्रायोग्रहणं सूत्रग्रहणेऽवि कश्चिद्भवत्येव प्रमार्ज्जनादिरिति ज्ञापनार्थम् ।। साम्प्रतमधिकृतविधिप्रदर्शनाय द्वारगाथामाह
नि. ( ७०३) मज्जननिसेज अक्खा कितिकंमुस्सग्ग वंदनं जेट्टे । भासतो होई जेट्ठो नो परियाएण तो वंदे ॥
वृ- एतद्व्याचिख्यासयैवेदमाह
नि. (७०४) ठाणं पमज्जिऊणं दोन्नि निसिजाउ होंति कायव्वा । एगा गुरुण भणिया बितिया पुण होंति अक्खाणं ॥
वृ- निगद सिद्धा, नवरम्-‘अक्खाणं' ति समवसरणस्य, न चाकृतसमवसरणेन व्याख्या कर्त्तव्येत्युत्सर्गः ॥ व्याख्यातं द्वारत्रयं, कृतिकर्मद्वारव्यचिख्यासयाऽऽह
नि. (७०५ ) दो चैव मत्तगाई खेले तह काइयाए बीयं तु । जावया य सुती सव्वेऽवि य ते तु वंदंति ॥
वृ- निगदसिद्धैव, नवरं मात्रकं - समाधिः, कृतिकर्मद्वार एव च विशेषाभिधानमदुष्टमिति, अर्द्धकृत व्याख्यानोत्थाना-नुत्थनाभ्यां पलिमन्थाऽऽत्मविराधनादयश्च दोषा भावनीया इति द्वारम् । अधुना कायोत्सर्गद्वारं व्याचिख्यासुराह नि. (७०६)
सव्वे काउस्सगं करेंति सब्वे पुणोऽवि वंदति ।
नासण्णे नाइदूरे गुरूवयणपडिच्छगा होंति ||
वृ- सर्वे श्रोतारः 'श्रेयांसि बहुविघ्नानी' तिकृत्वा तद्विघातायानुयोगप्रारम्भनिमित्तं कायोत्सर्ग कुर्वन्ति, तं चोत्सार्य सर्वे पुनरपि वन्दन्ते ततो नासत्रे नातिदारे व्यवस्थिताः सन्तः किम् ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org