________________
२३९
उपोद्घातः - [नि.६९७]
वृ- 'आवश्यके' मूलगुणोत्तरगुणानुष्ठानलक्षणे युक्तः 'नियमनिसिद्धोत्ति होइ नायव्यो' नियमेन निषिद्धो नियम-निषिद्ध 'इति' एवं भवति ज्ञातव्यः, आवश्यिक्यपि चावश्यकयुक्तस्यैवेत्यत एकार्थतेति । अथवेति प्रकारान्तरदर्शनार्थः, अपिशब्दस्य व्यवहितः सम्बन्धः, निषिद्धात्माऽपि नियमादावश्यके युक्तो यतः अतोऽप्येकार्थतेति, पाठान्तरं वा 'अहवावि निसिद्धप्पा सिद्धाणं अंतियं जाइ'त्ति, अस्यायमर्थः - एवं क्रियाया अभेदेनावश्यकीनषेधिख्योरेकार्थतोक्ता, इह तु कायभिदेनोच्यते, अथवा निषिद्धात्माऽपि सिद्धानामन्तिकं-सामीप्यं 'याति' गच्छति, अपिशब्दादावश्यकयुक्तोऽपि, अतः कार्याभेदादेकार्थतेति गाथार्थः ।
साम्पतमापृच्छादिद्वारचतुष्टयमेकगाधयैव प्रतिपादयन्नाह[मा.१२३] आपुच्छणा उ कज्जे पुवनिसिद्धेण होइ पडिपुच्छा ।
पुवगहिएण छंदन निमंतणा होअगहिएणं ॥ वृ-आप्रच्छनमापृच्छा सा च कर्तुमभीष्टे कार्ये प्रवर्त्तमानेन गुरोः कार्या-अहमिदं करोमीति। तथा पूर्वनिषिद्धेन सता भवतेदं न कार्यमिति, उत्पन्ने च प्रयोजने कर्तुकामेन ‘होति पडिपुच्छत्ति प्रतिपृच्छा कर्त्तव्या भवति, पाठान्तरं वा-'पुवनिउत्तेण होइ पडिपुच्छा' पूर्वनियुक्तेन सता यथा भक्तेदं कार्यमिति तत्कर्तुकामेन गुरोः प्रतिपृच्छा कर्त्तव्या भवति-अहं तत्करोमीति, तत्र हि कदाचिदसौ कार्यान्तरमादिशति समाप्तं वा तेन प्रयोजनमिति । तथा पूर्वगृहीतेना-शनादिना छन्दना शेषसाधुभ्यः कर्तव्या-इदं मयाऽशनद्यानीतं यदि कस्यचिदुपयुज्यते ततोऽसाविच्छाकारेण ग्रहणं करोत्विति । तथा निमन्त्रणा भवत्यगृहीतेनाशनादिना अहं भवतोऽशनाद्यान-यामीति गाथार्थः द्वारं । इदानीमुपसम्पद्वारावयवार्थः प्रतिपाद्यते-सा चोपसम्पद् द्विधा भवति-गृहस्थोपसम्पत्साधूपसम्पच्च, तत्रास्तां तावद् गृहस्थोपसम्पत्, साधूपसम्पप्रतिपाद्यते-सा च त्रिविधाज्ञानादिभेदाद्, आह चनि. (६९८) उवसंपया य तिविहा नाणे तह दंसणे चरिते य ।
दसणनाणे तिविहा दुविहा य चरित्तअट्ठाए । वृ- उपसम्पच्च त्रिविधा ‘ज्ञाने' ज्ञानविषया तथा दर्शनविषया चारित्रविषया च, तत्र दर्शनज्ञानयोः सम्बन्धिनी त्रिविधा द्विविधा च चारित्रार्थायेति गाथार्थः ॥ तत्र यदुक्तं. 'दर्शनज्ञानयोस्त्रिविधेति तत्प्रतिपादयन्नाहनि. (६९९) वत्तणा संधणा चेव, गहणं सुत्तत्थतदुभए ।
वेयावच्चे खमणे, काले आवकहाइ य ॥ वृ- वर्तना सन्धना चैव ग्रहणमित्यतत्रितयं 'सुत्तत्थतदुभए'त्ति सूत्रार्थोभयविषयमवगगन्तव्यमिति, एतदर्थमुपसम्पद्यते, तत्र वर्तना प्राग्गृहीतस्यैवास्थिरस्य सूत्रादेर्गुणनमिति, सन्धना तु तस्यैव प्रदेशान्तरविस्मृतस्य मेलनं घटना योजना इत्यर्थः, ग्रहणं पुनः तस्यैव तत्प्रथमतया आदानमिति, एतत्रितयं सूत्रार्थोभयविषयं द्रष्टव्यम्, एवं ज्ञाने नवभेदाः, दर्शनेऽपि दर्शनप्रभावनीयशास्त्रविषया एत एव द्रष्टव्या इति, अत्र च सन्दिष्टः सन्दिष्टस्योपसम्पद्यते इत्यादिचतुर्भङ्गिका, प्रथमः शुद्धः शेषास्त्वशुद्धा इति, 'द्विविधा च चारित्राय'ति यदुक्तं तत्प्रदर्शनायाह-'वेयावच्चे खमणे काले आवकहाइ य' चारित्रोपसम्पद् वैयावृत्यविषया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org