________________
उपोद्घातः - [नि.६१६]
२१९ कर्म, तच्च तिर्यग्नरनारकामराद्यायुष्कभेद-भिन्नत्वात् चित्रवेव, अतः कारणवैचित्र्यादेव कार्यवैचित्र्यमिति, वस्तुस्थित्या तु सौम्य ! न किञ्चिदिह लोके परलोके वा सर्वथा समानमसानं वाऽस्ति, तथा चेह युवा निजैरप्यतीतानागतैर्बालवृद्धादिपर्यायैः सर्वथा न समानः, अवस्थाभेदग्रहणात्, नापि सर्वथाऽसमानः, सत्ताधनुगमदर्शनाद्, एवं परलोकेऽपि मनुजो देवत्वमापन्नो न सर्वथा समानोऽसमानो वा, इत्थं चैतदङ्गीकर्तव्यं, अन्यथा दानदयादीनां वैयर्थ्यप्रसङ्गात् । नि. (६१७) छिनमि संसयंमी जिनेन जरमरणविप्पमुक्केणं ।
सो समणो पब्वइओ पंचहिं सह खंडियसएहिं ।। वृ- व्याख्या-पूर्ववत् ।। इति पञ्जमो गणधरः समाप्तः । नि. (६१८) ते पव्वइए सोउं मंडिओ आगच्छइ जिनसगासं ।
वच्चामि न वंदामी वंदित्ता पज्जुवासामि ॥ वृतानिन्द्रभूतिप्रमुखान् प्रव्रजितान् श्रुत्वा मण्डिकः षष्ठो गणधरः आगच्छति जिनकसाशं, किम्भूतेनाध्यवसायेनेत्याह-वच्चामि णमित्यादि पूर्ववत् । स च भगवत्समीपं गत्वा प्रणम्य च भुवननाथमतीव मुदितः तदग्रतस्तस्थौ, अत्रान्तरेनि. (६१९) आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं ।
नामेण य गोत्तेण य सवण्णू सव्वदरिसीणं ॥ वृ- व्याख्या-पूर्ववत् । नि. (६२०) किं मनि बंधमोक्खा अस्थि न अत्यित्ति संसओ तुझं ।
वेयपयाण य अत्थं न याणसी तेसिमो अत्यो ।।। वृ-किं मन्यसे बन्धमोक्षी स्तो न वा ?, नन्वयमनुचितस्ते संशयः, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्ध-वेदपदश्रष्टतिसमुत्थो वर्तते, वेदपदानां चार्थं न जानासि, चः पूर्ववत्, तेषामयमर्थो वक्ष्यमाणलक्षण इत्यर्थः । तानि चामूनि वेदपदानि-‘स एष विगुणो विभुर्न बध्यते संसरति वा, न मुच्यते मोचयति वा, न वा एष बाह्यमभ्यन्तरं वा वेद' इत्यादीनि च, एषां चायमर्थस्ते चेतसि प्रतिभासते-स एषः-अधिकृतो जीवः विगुणः-सत्त्वादिगुणरहितः विभु:-सर्वगतः न बध्यते-पुण्यपापाभ्यां न युज्यत इत्यर्थः, संसरति वा, नेत्यनुवर्तते, न मुच्यते-न कर्मणा वियुज्यते, बन्धाभावात्, मोचयति वाऽन्यम्, अनेनाकर्तृकत्वमाह, न वा एष बाह्यम्-आत्मभिन्नं महदहङ्कारादि अभ्यन्तरं-स्वरूपमेव वेद--विजानाति, प्रकृतिधर्मत्वात् ज्ञानस्य, प्रकृतेश्चाचेतनत्वाद्बन्धमोक्षानुपपत्तिरिति भावः । ततश्चामूनि किल बन्धमोक्षाभवप्रतिपादकानि, तथा 'नह वै' नैवेत्यर्थः, सशरीरस्य प्रियाप्रिययोरपहतिरस्तीतिबाह्याध्यात्मिकानादिशरीरसन्तानयुक्तत्वात् सुखदुःखयोरपहतिः संसारिणो नास्तीत्यर्थः, अशरीरं वा वसन्तम्-अमूर्तमित्यर्थः, प्रियाप्रिये न स्पृशतः, कारणाभावादित्यर्थः, अमूनि च बन्धमोक्षाभिधायकानीति, अतः संशयः, तथा सौम्य! भवतोऽभिप्रायो-बन्धो हि जीवकर्मसंयोगलक्षणः, स आदिमानादिरहितो वा स्यात् ?,
यदि प्रथमो विकल्पस्ततः किं पूर्वमात्मप्रसूतिः पश्चात्कर्मणः उत पूर्व कर्मणः पश्चादात्मनः आहोश्विद्युगपदुभयस्येति ?, किं चातः, न तावत्पूर्वमात्मप्रसूतियुज्यते, निर्हेतुकत्वाद्, Jain Education International
For Private & Personal Use Only
www.jainelibrary.org