________________
२२०
आवश्यक मूलसूत्रम् - १
"
व्योमकुसुमवत्, नापि कर्मणः प्राक् प्रसूतिः, कर्तुरभावात्, न चाकर्तृकं कर्म भवति, युगप्रसूतिरप्यकारणत्वादेव न युज्यते, न चानादिमत्यप्यात्मनि बन्धो युज्यते, बन्धकारणाभावाद् गगनस्येव, इत्थं चैतदङ्गीकर्तव्यम्, अन्यथा मुक्तस्यापि बन्धप्रसङ्गः तथा च सति नित्यमोक्षत्वान्मोक्षानुष्ठानवैयर्थ्यम्, अथ द्वितीयः पक्षः, तथापि नात्मकर्मवियोगो भवेद्, अनादित्वाद्, आत्माकाशसंयोगवद्, इत्थं मोक्षो न घटते, तथा देहकर्मसन्तानानादित्वाच्च कुतो मोक्ष इति ते मतिः । तत्र वेदपादनामयमर्थः स एष मुक्तात्मा विगताः छाद्यस्थिकज्ञानादयो गुणा यस्य स विगुणः विभुः - विज्ञानात्मना सर्वगतः न बध्यते - मिथ्यादर्शनादिबन्धकारणाभावात् संसरति वा- मनुजादिभवेषु कर्मबीजाभावात्, नेत्यनुवर्त्तते, न मुच्यते, मुक्तत्वात्, मोचयति वा तदा खलूपदेशदानविकलत्वात्, नेत्यनुवर्त्तते, तथा संसारिकसुखनिवृत्त्यर्थमाह-नवा एष-मुक्तात्मा बाह्यं-स्त्रकन्दनादिजनितम् आभ्यन्तरम् - आभिमानिकं वेद- अनुभवात्मना विजानातीत्येवमेतानि मुक्तात्मस्वरूपाभिधायकान्येव, शेषाणितु सुगमानि, तथा जीवकर्मणोरप्यनादिमतोरनादिमानेव संयोगो, धर्माधर्मास्तिकायाकाशसंयोगवदिति, न चानादित्वात्संयोगस्य वियोगाभावः, काञ्चनोपलयोः संयोगोऽनादिसन्ततिगतोऽपि क्षारमृत्पुटपाकादिद्रव्यसंयोगोपायतो विघटते,
यतः
एवं जीवकर्मणोरपि ज्ञानदर्शन चारित्रयोगोपायाद्वियोग इति, न चानादित्वात्सर्वस्य कर्मणो जीवकृतत्वानुपपत्तिः, यो वर्त्तमानतया मिथ्यादर्शनादिसव्यपेक्षात्मनोपात्तं कृतमित्युच्यते, सर्वं च वर्त्तमानत्वेन मिथ्यादर्शनादिसव्यपेक्षात्मोपात्तं कर्म अनादि च, कालवत्, यथा हि यावानतीतः कालस्तेनाशेषेण वर्त्तमानत्वमनुभूतमथ चासावनादिरिति न चामूर्त्तस्य मूर्त्तसंयोगो न घटते, घटाकाशसंयोगदर्शनाद्, वियोगस्तु दर्शित एव, न च मुक्तस्यापि कर्मयोगः, तस्य कषायादिपरिणामाभावात्, कषायादियुक्तश्च जीवः कर्मणो योग्यान् पुगलानादत्ते इति, न चेत्थं भव्योच्छेदप्रसश्चः, अनागतकालवत्तेषामनन्तत्वात् न च परिमितक्षेत्रे तेषामवस्थानाभावः, अमूर्त्तत्वात्, प्रतिद्रव्यमनन्तकेवलज्ञानदर्शनसम्पातवन्नर्तकीनयनविज्ञानसम्पातवद्वा, इत्यलं प्रसङ्गेन । छित्रम संसयंमी जिनेन जरमरणविष्पमुक्केणं । सो समणो पव्वइओ अहिं सह खंडियसएहिं ||
नि. (६२१)
वृ- पूर्ववत्, नवरम् - अर्द्धचतुर्थे, सह खण्डिकशतैः । इति षष्ठो गणधरः समाप्तः । नि. (६२२) ते पव्वइए सोउं मोरिओ आगच्छई जिनसगासं । वच्चामि न वंदामी वंदित्ता पज्जुवासामि ।।
वृ- पूर्ववत्, नवरं मौर्य आगच्छति जिनसकाशामिति नानात्वम् । नि. (६२३) आभट्ठो य जिणं जाइजरामरणविप्यमुक्केणं ।
नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥
वृ- सपातनिका व्याख्या पूर्ववदेव ।
नि. (६२४ ) किं मन्नसि संति देवा उयाहु न सन्तीति संसओ तुझं । वेयपयाण य अत्यं न याणसी तेसिमो अत्थो ||
वृ- किं सन्ति देवा उत न सन्तीति मन्यसे, व्याख्यान्तरं प्राग्वत्, अयं च संशयस्तव विरुद्ध वेदपदश्रुतिप्रभवो वर्त्तते, पश्चार्द्धं पूर्ववत् । तानि चामूनि वेदपदानि स एष यज्ञायुधी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org