________________
२१८
आवश्यक मूलसूत्रम्-१.
च विषयवलोपजातसंवेदनाकारस्य विषयाभेदाभेदविकल्पद्वारेणानुपपत्तिर्भाव्या, विशिष्टपरिणामोपेतार्थसन्निधावात्मनः कालक्षयोपशमादिसव्यपेक्षस्य नीलादिविज्ञानमुत्पद्यते, तथापरिणामाद्, इत्थं चैतदङ्गीकर्तव्यम्, अन्यथा नीलात्संवेदनानीलसंवेदनान्तरानुपपत्तिः, प्रागुपन्यस्तविकल्पयुगलकसम्भवादित्येवं परमाणुतुल्यरूपग्रहोऽविरुद्धः, अतुल्यरूपं तु योगिगम्यत्वात् विशिष्टक्षयोपशमाभावात्सर्वथा न परिगृह्यते, न च परमाणूनां बहुत्वेऽपि विशेषाभावाद् घटशरावादिबुद्धेः तुल्यत्वप्रसङ्गो, विशेषाभावस्यासिद्धत्वात्, तथा च परमाणव एव विशिष्टपरिणामवन्तो घट इति, न च परमाणुसमुदायातिरिक्तानि भूतानि इत्यलं प्रसङ्गेन । नि. (६१३) छिन्नंमि संसयंमी जिनेन जरमरणविष्पमुक्केणं ।
सो समणो पव्वईओ पंचहिं सह खंडियसएहिं ।। वृ- व्याख्या-पूर्ववत् । इति चतुर्थो गणधरः समाप्तः । नि. (६१४) ते पव्वइए सोउं सुहमो आगच्छईं जिनसगासं ।
वच्चामि णं वंदामी वंदित्ता पज्जुवासामी ॥ वृ-'तान्' इन्द्रभूतिप्रमुखान् प्रव्रजितान् श्रुत्वा सुधर्मः पञ्चमो गणधर आगच्छति जिनसकाशं, किम्भूतेनाध्यवसायेन इत्याह-पश्चार्द्ध पूर्ववत् । स च भगवन्तं दृष्ट्वा अतीव मुमुदे, अत्रान्तरेनि. (६१५) आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं ।
नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ वृ- व्याख्या-पूर्ववत् । नि. (६१६) किं मण्णि जारिसो इह भवंमि सो तारिसो परभवेऽवि ?।
वेयपयाण य अत्थं न जाणसी तेसिमो अत्थो ।। वृ-किं मन्यसे ? यो मनुष्यादिशि इह भवे स ताशः परभवेऽपि, नन्नवयमनुचितस्ते संशयः, व्याख्यान्तरं पूर्ववत्, संशयश्च तवायं विरुद्धवेदपदश्रुतिनिबन्धनो वर्तते, तानि चामूनि-"पुरुषो वै पुरुषत्वमश्रुते'पुरुषत्वं प्राप्नोतीत्यर्थः 'पशवः पशुत्वम्' इत्यादीनि, तथा 'शृगालो वै एष जायते यः सपुरीषो दह्यते' इत्यादीनि च, तत्र वेदपदानां चार्थं न जानासि, चः पूर्ववत्, तेषामयमर्थो-वक्ष्यमाणलक्षण इत्यक्षरार्थः । तत्र वेदपदानां त्वमित्थमर्थं मन्यसेपुरुषो मृतः सन् पुरुषत्वमश्रुते, पुरुषत्वमश्रुते, पुरुषत्वमेव प्राप्नोतीत्यर्थः, तथा पशवो-गवादयः पशुत्वमेवेत्सूनि भवान्तरसाद्दश्याभिधायकानि, तथा 'शृगालो वै एष' इत्यादीनि तु भवान्तरे वैसादृश्यख्यापकानीत्यतः संशयः, कारणानुरूपं च कार्यमुत्पद्यते इति तेऽभिप्रायो, यतो न शालिबीजागोधूमाङ्कुरप्रसूतिः इति, तत्र वेदपदानामयमर्थः-पुरुषः, खल्विह जन्मनि स्वभावमाईवार्जवादिगुणयुक्तो मनुष्यनामगोत्रे कर्मणी बद्ध्वा मृतः सन् पुरुषत्वमश्रुते, न तु नियमतः, एवं पशवोऽपि पशुभवे मायादिगुणयुक्ताः, पशुनामगोत्रे कर्मणी बवा मृताः सन्तः पशुत्वमासादयन्ति, न तु नियोयतः इति, कर्मसापेक्षो जीवानां गतिविशेष इत्यर्थः, शेषाणि तु सुगमानि, न च नियमतः कारणानुरूपं कार्यमुत्पद्यते, वैसाद्दश्यस्यापि दर्शनात्, तद्यथा-शृङ्गाच्छरो जायते, तस्मादेव सर्षपानुलिप्तात्, तृणानीति, तथा गोलोमाविलोमभ्यो दूर्वेति, एवमनियमः, अथवा कारणानुरूपकार्यपक्षेऽपि भवान्तरवैचित्र्यमस्य युक्तमेव, यतो भवाङ्गुरबीजं सौम्य ! सात्मकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org