________________
२१०
आवश्यक मूलसूत्रम्-१.
अहो स्विष्टं, विग्रहवन्तः खलु देवा आगता इत्याहनि. (५९१) तं दिव्वदेवघोसं सोऊणं मानुसा तहिं तुट्ठा।
अहो (हु) जन्निएण जटुं देवा किर आगया इहई । वृ-तं दिव्यदेवघोषं श्रुत्वा मनुष्याः 'तत्र' यज्ञपाटे तुष्टाः, 'अहो' ! विस्मये, यज्ञेन जयति लोकानिति याज्ञिकः तेनेष्टं, कुतः?-एते देवाः किल आगता अत्रेति, किलशब्दः संशय एव, तेषामन्यत्र गमनादिति गाथार्थः । तत्र च यज्ञपाटे वेदार्थविदः एकादशापि गणधरा ऋत्विजः समन्वागता इत्याह चनि. (५९२) एक्कारसवि गणहरा सव्वे उन्नयविसालकुलवंसा ।
पावाएँ मज्झिमाए समोसढा जनवाडम्मि ॥ वृ-एकादशापि गणधराः समवसृताः यज्ञपाट इति योगः, किंभूता इत्याह-सर्वे' निरवशेषाः उन्नताः-प्रधानजातित्वात् विशालाः-पितामहपितृव्याधनेकसमाकुलाः कुलान्येव वंशाः-अन्वया येषां ते तथाविधाः, पापायां मध्यमायां 'समवसृताः' एकीभूताः, छ? -यज्ञपाट इति गाथार्थः। आह-किमाद्याः, किंनामानो वा त एते गणधराः इति ? उच्यते - नि. (५९३) पढमित्थ इंदभूई बिइओ उण होइ अग्गिभूइत्ति ।
तइए य वाउभूई तओ वियत्ते सुहम्मे य ॥ वृ.प्रथमः 'अत्र' गणधरमध्ये इन्द्रभूतिः, द्वितीय, पुनर्भवति अग्निभूतिरिति, तृतीयश्च वायुभूतिः, ततो व्यक्तः चतुर्थः सुधर्मश्च पञ्चमः, इति गाथार्थः ।। नि. (५९४) मंडियमोरियपुत्तो अकंपिए चेव अयलभाया य ।
मेयज्जे य पभासे गणहरा होति वीरस्स ॥ वृ-मण्डिकपुत्रः मौर्यपुत्रः, पुत्रशब्दः प्रत्येकमभिसम्बध्यते, अकम्पितथैव अचलभ्राता च मेतार्यश्च प्रभासः, एते गणधरा भवन्ति वीरस्य इति गाथार्थः ॥ नि. (५९५) जंकारण निक्खमणं चोच्छं एएसि आनुपुवीए ।
तित्थं च सुहम्माओ निरवच्चा गणहरा सेसा ।। दृ-'यत्कारणं' यन्निमित्तं निष्क्रमणं यत्तदोर्नित्यसम्बन्धात् तत् वक्ष्ये 'एतेषां' गणधराणाम् 'आनुपूर्व्या' परिपाट्या, तथा तीर्थं च सुधर्मात् सञ्जातं, 'निपत्याः' शिष्यगणरहिताः गणधराः 'शेषाः' इन्द्रभूत्यादयः इति गाथार्थः ।। तत्र जीवादिसंशयापनोदनिमित्तं गणधरनिष्क्रमणमितिकृत्वा यो यस्य संशयस्तदुपदर्शनायाहनि. (५९६) जीवे कम्मे तज्जीव भूय तारिसय बंधमोक्खे य ।
देवा नेरइए या पुण्णे परलोय नेव्वाय ।। वृ- एकस्य जीवे संशयः-किमस्ति नास्ति इति, तथा परस्य कर्मणि, ज्ञानरणीयादिलक्षणं कर्म किमस्ति नास्ति? इति, अपरस्य 'तज्जीवे' त्ति किं तदेव शरीरं स एव जीव उत अन्य इति, न जीवसत्तायाम् इति, तथा 'भूते'त्ति अपरस्य भूतेषु संशयः, पृथिव्यादीनि भूतानि सन्ति न वेति, अपरस्य 'तारिसय' ति किं यो याद्दश इह भवे स ताश एव अन्यस्मिन्नपि ? उत नेति, ‘बन्धमोक्खे यत्ति अपरस्य तु किं बन्धमोक्षी स्तः ? उत न इति, आह-कर्मसंशयात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org