________________
उपोद्घातः - [नि.५८७]
. २०९ सव्वामयप्पसमणी कुप्पइ नऽन्नो य छम्मासे । - वृ-शेषार्द्धस्य अर्द्ध-अद्धिं तदधिपतेर्भवति राज्ञ इत्यर्थः, अवशेष यद्वलेरास्ते तद्भवति कस्य?, प्रकृतिषु भवः प्राकृतो जनस्तस्य, सचेत्थंसामर्थ्यो भवति-ततः सिकूथेनापि शिरसि प्रक्षिप्तेन रोगः खलूपशमं याति, अपूर्वश्च षण्मासान यावन्न भवतीति, आह च-समियप्रशमनः, कुप्यति नान्यश्च षण्मासं यावत् । प्राकृतशैल्या स्त्रीलिङ्गनिर्देश इति गाथार्थः । अपरे त्वननोक्तद्वारद्वयमप्येकद्वारीकृत्य, व्याचक्षतने, तथापि अविरोध इति । इत्थं बलौ प्रक्षिप्ते भगवान् प्रथमात् प्राकारान्तरात् उत्तरद्वारेण निर्गत्य उत्तरपूर्वायां दिशि देवच्छन्दके यथासुखं समाधिना व्यवतिष्ठतं इति । भगवत्युत्थिते द्वितीयपौरुष्यामाघगणधरोऽन्यतमो वा धर्ममाचष्टे । आह-भगवानेव किमिति नाचष्टे ?, तत्कथने के गुणा इति?, उच्यतेनि. (५८८) खेयविणोओ सीसगुणदीवणा पच्चओ उभयओऽवि ।
सीसायरियकमोऽवि य गणहरकहणे गुणा होति ॥ वृ- खेदविनोदो भगवतो भवति, परिश्रमविश्राम इत्यर्थः, तथा 'शिष्यगुणदीपना' शिष्यगुणप्रख्यापना च कृता भवनि, तथा प्रत्यय उभयतोऽपि श्रोतृणामुपजायते-यथा भगवताऽभ्यधायि तता गणधरेणापि, गणधरे वा तदनन्तरं तदुक्तानुवादिनि प्रत्ययो भवति श्रोतृणाम्-नान्यथावाद्ययमिति, तथा शिष्याचार्यक्रमोऽपिच दर्शितो भवति, आचार्यात् उपश्रुत्य योग्यशिष्येण तदर्थान्वाख्यानं कर्तव्यमिति, एते गणधरकथने गुणा भवन्ति इति गाथार्थः ।।
आह-स गणधरः क्व निषण्णः कथयतीति?, उच्यतेनि. (५८९) आओवणीयसीहासणे निविट्ठो व पायवीटंमि ।
जिट्ठो अनयरो वा गणहारी कहइ बीआए ॥ वृ- राज्ञा उपनीतं राजोपनीतं राजोपनीतं च तत् सिंहासनं चेति समासः, तस्मिन् राजोपनीतसिंहासने उपविष्टो वा भगवत्पादपीठे, स च ज्येष्टः अन्यतरो वा गणं-साध्वादिसमुदायलक्षणं धारयितुं शीलमस्येति गणधारी कथयति द्वितीयायां पौरुष्यामिति गाथार्थः ।।
आह-स कथयन् कथं कथयतीति ?, उच्यतेनि. (५९०) संखाईएऽवि भवे साहइ जं वा परो उ पुच्छिज्जा ।
न य णं अनाइसेसी वियाणई एस छउमत्थो ।। । वृ-सङ्ख्यातीतानपि भवान्, असङ्ख्येयानित्यर्थः, किं ? -“साहइत्ति देशीवचनतः कथयति, एतदुक्तं भवति--असङ्खयेयभवेषु यदभवद्भविष्यति वा, यद्वा वस्तुजातं परस्तु पृच्छेत् तत्सर्वं कथयतीति, अनेनाशेषामिलाप्यपदार्थप्रतिपादनशक्तिमाह, किंबहुना ? -'न च' नैव, णमिति वाक्यालङ्कारे, 'अनाइसेसि ति अनतिशयी अवध्याधतिशयरहित इत्यर्थः, विजानाति यथा एष गणधरछद्मस्थ इति, अशेषप्रश्नोत्तरप्रदानसमर्थत्वात्तस्येति गाथार्थः ।। समवसरणं समत्तं
एवं तावत्समवसरणवक्तव्यता सामान्येनोक्ता, प्रकृतमिदानी प्रस्तूयते-तत्र भगवतः समवसरणे निष्पन्ने सत्यत्रान्तरे देवजयशब्दसम्मिश्रदिव्यदुन्दुभिशब्दाकर्णनोत्फुल्लनयनगगनावलोकनोपलब्धस्वर्गवधूसमेतसुरवृन्दानां यज्ञपाटकसमीपाभ्यागतजनानां परितोषोऽभवद्12414
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org