________________
आवश्यक मूलसूत्रम् - १
वृ- भक्तिविभवानुरूपं अन्येऽपि च ददति इभ्यादयः, इभ्यो- महाधनपतिः, आदिशब्दात् नगरग्रामभोगिकादयः कदा ? श्रुत्वा जिनागमनं, केभ्यो ? नियुक्तानियोजितेभ्यो वेति, गाथार्थः ॥ तेषामित्यं प्रयच्छतां के गुणा इति ?, उच्यते
नि. (५८३)
देवानुअत्ति भत्ती पूया थिरक- सत्तअनुकंपा । साओदय दानगुणा पभावना चैव तित्थस्स ॥
वृ- देवानुवृत्तिः कृता भवति, कथं ?, यतो देवा अपि भगवतः पूजां कुर्वन्त्यतः तदनुवृत्तिः कृता भवति, तथा भक्तिश्च भगवतः कृता भवति, तथा भूजा च, तथा स्थिरीकरणमभिनवश्राद्धकानां, तथा कथकसत्त्वानुकम्पा च कृतेति तथा सातोदयवेदनीयं बध्यते, एते दानगुणाः, तथा प्रभावना चैव तीर्थस्य कृता भवतीति गाथार्थः ॥ साम्प्रतं देवमाल्यद्वारावयवार्थमधिकृत्योच्यते तत्र भगवान् प्रथमां सम्पूर्णपौरुषीं धर्ममाचष्टे, अत्रान्तरे देवमाल्यं प्रविशति, बलिरित्यर्थः, आह-कस्तं करोति इति ?, उच्यते
नि. (५८४) राया व रायमुच्चो तस्सऽ सईं पउरजनवओ वाऽवि ।
२०८
3
दुब्बलिखंडियबलिछडियतंदुलाणाढगं कलमा ।।
वृ- 'राजा वा' चक्रवर्त्तिमण्डलिकादिः 'राजामात्यो वा' अमात्यो - मन्त्री, तस्य राज्ञोऽमात्यस्य वा असति-अभावे नगरनिवासिविशिष्टलोकसमुदायः पौरं तत्करोति, ग्रामादिषु जनपदो वा, अत्र जनपदशब्देन तन्निवासी लोकः परिगृह्यते, स किंविशिष्टः किंपरिमाणो वा क्रियत इति ?, आह- 'दुब्बली' त्यादि, तत्र दुर्बलिकया खण्डितानां 'बली'ति बलवत्या छटितानां तन्दुलानाम् आढकं - चतुः प्रस्थपरिमाणं, 'कलमे' ति प्राकृतशैल्या कलमानां - तन्दुलानाम् इति गाथार्थः । किंविशिष्टानामिति ? आह
नि. ( ५८५ ) भाइयपुणाणियाणं अखंडफुडियाण फलगसरियाणं ।
कीरइ बली सुरावि य तत्थेव छुहंति गंधाई ॥
वृ- विभक्तपुनरानीतानां भाजनम्-ईश्वरादिगृहेषु वीननार्थमर्पणं तेभ्यः प्रत्यानयनंपुनरानयनमिति, विभक्ताश्चते पुनरानीताश्चेति समासः, तेषां, किंविशिष्टानाम् ? - अखण्डाःसम्पूर्णावयवाः अस्फुटिताः -राजीरहिताः, अखण्डाश्च तेऽस्फुटिताश्च इति समासः, तेषां, 'फलगसरिताणं' ति फलकवीनितानाम् एवं भूतानामाढकं क्रियते बलिः, सुरा अपि च तत्रैव बली प्रक्षिपन्ति गन्धादीनिति गाथार्थः ॥ माल्यानयनद्वारं, इदानीं तमित्थं निष्पन्नं बलिं राजादयस्त्रिदशसहिताः गृहीत्वा तूर्यनिनादेन दिग्मण्डमापूरयन्तः खल्वागच्छन्ति, पूर्वद्वारेण च प्रवेशयन्ति, अत्रान्तरे भगवानप्युपसंहरतीति, आह
नि. (५८६) बलिपविसणसमकालं पुव्वद्दारेण ठाति परिकहणा । तिगुणं पुरओ पाडण तस्सद्धं अवडियं देवा ।।
कृ- पूर्वद्वारेणेति व्यवहित उपन्यासः, बलेः प्रवेशेनं पूर्वद्वारेणस बलिप्रवेशनसमकालं 'तिष्ठति' उपरमते धर्मकथेति, 'तिगुणं पुरओ पाडण' प्रविश्य राजादिर्बलिव्यग्रदेहो भगवन्तं त्रिः प्रदक्षिणीकृत्य तं बलिं तत्पादान्तिके पुरतः पातयति, तस्य चार्द्धमपतितं देवाः गृह्णन्ति इति । नि. (५८७) अद्धद्धं अहिवो अवसेसं हवइ पागयजनस्स 1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org