________________
उपोद्घातः - [नि.५९६]
२११ अस्य को विशेष इति ? उच्यते, स कर्मसत्तागोचरः, अयं तु तदस्तित्वे सत्यपि जीवकर्मसंयोगविभागगोचर इति, तथा अपरस्य देवाः किं सन्ति ? नेति वा, अपरस्य तुनारकाश्च संशयगोचराः, किं ते सन्ति न सन्ति वा ?, तथा अपरस्य पुण्ये संशयः, कर्मणि सत्यपि किं पुण्यमेव प्रकर्षप्राप्तं प्रकृष्टसुखहेतुः, तदेव चापचीयमानमत्यन्तस्वल्पावस्थं दुःखस्य उत तदतिरिक्तं पापमस्ति आहोस्विदेकमेव उभयरूपम् उत स्वतन्त्रमुभयमिति, अपरस्य तु परलोके संशयः, सत्यप्यात्मनि परलोको-भवान्तरलक्षणः किमस्ति नास्ति ? इति, अपरस्य तु निर्वाण संशयः, निर्वाणं किमस्ति नास्ति ? इति, आह-बन्धमोक्षसंशयात् अस्य को विशेष इति, उच्यते, स हि उभयगोचरः, अयं तु केवलविषय एव, तथा किं संसाराभावमात्र एव असौ मोक्षः ? उत अन्यथा ? इत्यादि, इति गाथार्थः । साम्प्रतं गणधरपरिवारमानप्रदर्शनाय आहनि. (५९७) पंचण्डं पंचसया अछुट्टसया य होति दोण्ह गणा।
दोण्हं तु जुयलयाणं तिसओ तिसओ भवे गच्छो । द-पञ्चानामाद्यानां गणधराणां पञ्च श्तानि प्रत्येकं प्रत्येक परिवार इति. तथा अर्द्धं चतर्थस्य येषु नामि अर्धचतुर्थानि २ शतानि अर्द्धचतुर्थशतानि २ मानं ययोः तौ अर्धचतुर्थशतौ भवतः द्वयोः प्रत्येकं गणौ, इह गणः समुदाय एव उच्यते, न पुनरागमिक इति, तथा द्वयोस्तु गणधरयुगलयोः त्रिशतः त्रिशतो भवति गच्छः, एतदुक्तं भवति-उपरितनानां चतुर्णां गणधराणां प्रत्येकं त्रिशतमानः परिवार इति गाधार्थः ।। उक्तमानुषङ्गिकं, प्रकृतं उच्यते-ते हि देवाः तं यज्ञपाटं परिहृत्य समवसरणभुवि निपतितवन्तः, तांश्च तथा दृष्ट्वा लोकाऽवि तत्रैव ययौ, भगवन्तं तु त्रिदशलोकेन पूज्यमानं दृष्ट्वा अतीव हर्ष चक्रे, प्रवादश्च सातः- सर्वज्ञाऽत्र समवसृतः, तं देवाः पूजयन्ति इति, अत्रान्तरे खल्वाकर्णितसर्वज्ञ-प्रवादाऽमर्पध्मातः खल्चिन्द्रभूतिभगवन्तं प्रति प्रस्थित इत्याहनि. (५९८) सोऊण कीरमाणी महिमं देवेहि जिनवरिंदस्स ।
अह एह अहम्माणी अमरिसिओ इंदभूइत्ति ॥ वृ-श्रुत्वा च क्रियमाणां, दृष्ट्वा वा पाठान्तरं, महिमां देवैर्जिनवरेन्द्रस्य, अथास्मिन् प्रस्तावे 'एइ' ति आगच्छति भगवत्समीपम् ‘अहम्माणि' त्ति अहमेव विद्वान् इति मानोऽस्य इति अहंमानी, 'अमर्षितः' अमर्षयुक्तः, अमर्षो-मत्सरविशेषः, मयि सति कोऽन्यः सर्वज्ञः ? इति, अपनयामि अद्य सर्वज्ञवादम्, इत्यादिसङ्कल्पकलुषितान्तरात्मा, कोऽसौ इत्याह-इन्द्रभूतिः इति गाथार्थः ।। स च भगवत्समीपं प्राप्य भगवन्तं च चतुस्त्रिंशदतिशयसमन्वितं त्रिदशासुरनरेश्वरपवृितं दृष्ट्वा साशङ्कः तदग्रतस्तस्थौ, अत्रान्तरेनि. (५९९) आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं ।
नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ - 'आभाषितश्च संलप्तश्च, केन? जिनेन, किंविशिष्टेन ? -जातिः-प्रसूतिः जरा-वयोहानिलक्षणा मरणं-दशविधप्राणवियोगरूपम् एभिर्विप्रमुक्तस्तेन, कथम् ? -नाना च हे इन्द्रभूते ! गोत्रेण च हे गौतम ! किंविशिष्टेन जिनेन इत्याह-सर्वज्ञेन सर्वदर्शिना । आह-यो जरामरणविप्रमुक्तः स सर्वज्ञ एवेति गतार्थत्वात् विशेषणवैयर्थ्य, न, नयवादपरिकल्पितजात्यादिवि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org