________________
२०६
आवश्यक मूलसूत्रम्-१
नि. (५७४) धम्मोदएण सवं करेंति स्वस्सिणोऽवि जइ धम्म ।
गिज्झवओ य सुरूवो पसंसिमो तेन एवं तु ।। वृ- दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः तस्योदयः तेन रूपं भवतीति श्रोतारोऽपि प्रवर्तन्ते, तथा कुर्वन्ति 'रूपस्विनोऽपि' (वस्सिणोऽवि) रूपवन्तोऽपि यदि धर्म ततः शेषैः सुतरां कर्तव्य इति श्रोतृबुद्धिः प्रवर्तते, तथा 'ग्राह्मवाक्यश्च' आदेयवाक्यश्च सुरूपो भवति, चब्दात् श्रोतृरूपाद्यभिमानापहारी च अतः, प्रशंसामो भगवतस्तेन रूपमिति गाथार्थः ॥ द्वारम्।
अथवा पृच्छेति भगवान् देवनरतिरश्चांप्रभूतसंशयिनां कथं व्याकरणं कुर्वन् संशयव्यवच्छित्तिं करोतीति ?, उच्यते, युगपत, किमित्याहनि. (५७५) कालेन असंखणेवि संखातीताण संसईणं तु!
मा संसयवोच्छित्ती न होज कमवागरणदोसा ॥ वृ-कालेनासङ्ख्येयेनापि सङ्ख्यातीतानां संशयिनां-देवादीनां मा संशयव्यवच्छित्तिर्न भवेत्, कुतः ?-क्रमव्याकरणदोषात्, अतो युगपद् व्यागृणातीति गाथार्थः |युगपदाव्याकरणगुणं प्रतिपिपादयिषुराहनि. (५७६) सव्वत्थ अविसमत्तं रिद्धिविसेसो अकालहरणं च ।
सव्वन्नुपञ्चओऽवि य अचिंतगुणभूतिओ जुगवं ।। - 'सर्वत्र सर्वसत्त्वेषु 'अविषमत्वं' युगपत् कथनेन तुल्यत्वं भगवत इति, रागद्वेषरहितस्य तुल्यकालसंशयिनां युगपत् जिज्ञासतां कालभेदकथने रागेतरगोचरचित्तवृत्तिप्रसङ्गात्, सामान्यकेवलिनां तत्प्रसङ्ग इति चेत्, न, तेषामित्वं देशनाकरणानुपपत्तेः, तथा ऋद्धिविशेषश्चायं भगवतोयद् युगपत् सर्वेषामेव संशयिनामशेषसंशयव्यवच्छित्तिं करोतीति । अकालहरणं चेत्यं भगवतः, युगपत् संशयाऽपगमात्, क्रमकथने तु कस्यचित् संशयिनोऽनिवृत्तसंशयस्यैव मरणं स्यात्, न च भगवन्तमप्यवाप्य संशयनिवृत्त्यादिफलरहिता भवन्ति प्राणिन इति, तथा सर्वज्ञप्रत्ययोऽपि च तेषामित्वमेव भवति, न ह्यसर्वज्ञो, हृद्गताशेषसंशयापनोदायालमिति, क्रमव्याकरणे तु कस्यचिदनपेतसंशयस्य तत्प्रतीत्यभावः स्यात्, तथाऽचिन्त्या गुणभूतिः-अचिन्त्या गुणसंपद् भगवत इति, यस्मादेते गुणास्ततो युगपत्कथयति इति गाथार्थः ॥ श्रोतृपरिणामः पर्यालोच्यते-तत्र यथा सर्वसंशयिनां समा सा पारमेश्वरी वागशेषसंशयोन्मूलनेन स्वभाषया परिणमते तथा प्रतिपादयन्नाहनि. (५७७) वासोदयस्स व जहा वण्णादी होंति भायणविसेसा ।
सव्वेसिपि सभासा जिनभासा परिणमे एवं ॥ वृ- वर्षोदकस्य वा वृष्टयुदकस्य वा, वाशब्दात् अन्यस्य वा, यथैकरूपस्य सतः वर्णादयो भवन्ति, भाजनविशेषात्, कृष्णसुरभिमृत्तिकायां स्वच्छं सुगन्धं रसवच्च भवति ऊषरे तु विपरीतम्, . एवं सर्वेषामपि श्रोतूणां स्वभाषया जिनभाषा परिणमत इति गाथार्थः । तीर्थकरवाचः सौभाग्यगुणप्रतिपादनायाहनि. (५७८) साहारणासवत्तो तदुवओगो उ गाहगगिराए ।
न य निविज्जइ सोया किढिवाणियदासिआहरणा ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org