________________
२०५
उपोद्घातः - [नि.५७०] शादनन्तगुणहीनाः खल्वाहारकदेहाः, आहारकदेहरूपेपेभ्योऽनन्तगुणहीनाः ‘अनुत्तराचे' ति अनुत्तरवैमानिका भवन्ति, एवमनन्तरानन्तर-देहरूपेभ्योऽनन्तगुणहानिर्द्रष्टव्या, ग्रैवेयकाच्युतारणप्राणनतानतसहस्त्रारमहाशुऋलान्तकब्रह्मलोकमाहेन्द्रसनत्कुमारे शान सौ(भवनवासिज्योतिष्कव्यन्तरचक्रवर्त्तिवासुदेवबलदेवमहामाण्डलिकानामित्यत एवाह-'जाव वण चक्कि वासु बला | मंडलिया ता हीनत्ति' यावत् व्यन्तरचक्रवर्त्तिवासुदेवबलदेवमाण्डलिकास्तावत् अनन्तगुहीनाः, 'छट्ठाणगया भवे सेस' ति शेषा राजानो जनपदलोकाश्च षट्स्थानगता भवन्ति, अनन्त भागहीना वा असङ्ख्येयभागहीना वा सङ्ख्येयभागहीना वा सङ्घयेयगुणहीना वा असङ्खयेयगुणहीना वा अनन्तगुणहीना वा इति गाथार्थः । उत्कृष्टरूपतायां भगवतः प्रतिपादयितुं प्रक्रन्तायामिदं प्रासनिक रूपसौन्दर्यनिबन्धनं संहननादि प्रतिपादयन्नाहनि. (५७१) संघयण रूव संठाण वण्ण गइ सत्त सार उस्सासा ।
एमाइनुत्तराई हवंति नामोदए तस्स ।। वृ-'संहननं वज्रऋषभनाराचं 'रूपम्' उक्तलक्षणं संस्थान' समचतुरस्त्रं 'वर्णो देहच्छाया 'गतिः' गमनं 'सत्त्वं वीर्यान्तररायकर्मक्षयोपशमादिजन्य आत्मपरिणामः, सारो द्विधा-बाह्योऽ. भ्यन्तरश्च, बाह्यो गुरुत्वम्, आभ्यन्तरो ज्ञानादिः, 'उच्छ्वासः' प्रतीत एव, संहननं च रूपं च संस्थानं च वर्णश्च गतिश्च सत्त्वं च सारश्च उच्छ्वासश्चेति समासः । एवमादीनि वस्तून्यनुत्तराणि भवन्ति तस्य भगवतः, आदिशब्दात् रुधिर गाक्षीराभं मासंचेत्यादि, कुत इत्याह-'नामोदयादिति नामाभिधानं कर्मानेकभेदभिन्न नदुदयादिति गाथार्थः ।। आह-अन्यासां प्रकृतीनां वेदना गोत्रादयो नाम्रो वा ये इन्द्रियाङ्गादयः प्रशस्ता उदया भवन्ति ते किमनुतरा भगवतः छद्मस्थकाले केवलिकाले वा उत नेति ?, अत्रोच्यतेनि. (५७२) पगडीणं अन्नासुवि पसत्य उदया अनुत्तरा होति। ...
खय उवसमेऽवि य तहा खयम्मि अविगप्पमाहंसु ॥ वृ. “पगडीणं अन्नासुवि' त्ति, षष्ठ्यर्थे सप्तमी, प्रकृतीनामन्यासामपि प्रशस्ता उदया उच्चैर्गोत्रादयो भवन्ति, किमितरजनस्येव ?, नेत्याह-'अनुत्तरा' अनन्यसहशा इत्यर्थः, अपिशब्दानाम्नोऽपि येऽन्ये जात्यादय इति । 'खय उवसमेऽवि य तह' त्ति, क्षयोपशमेऽपि सति ये दानलाभादयः कार्यविशेषा अपिशब्दादुपशमेऽपि ये केचन तेऽप्यनुत्तरा भवन्ति इति क्रियायोगः, तथा कर्मणः क्षये सति क्षायिकज्ञानदिगुणसमुदयम् ‘अविगप्पमाहंसुत्ति अविकल्पंव्यावर्णनादिवि-कल्पातीतं सर्वोत्तममाख्यातवन्तः तीर्थकृद्गणधरा इति गाथार्थः ॥ आह-असातवेदनीयाद्याः प्रकृतयो नाम्नो वा या अशुभास्ताः कथं तस्य दुःखदा न भवन्ति इति ?, अत्रोच्यतेनि. (५७३) अस्सायमाइयाओ जावि य असुहा हवंति पगडीओ।
निंबरसलवोव्व पएण होति ता असुहया तस्स ॥ वृ- असाताद्याः या अपि च अशुभा भवन्ति प्रकृतयः, ता अपि निम्बरसलव इव ‘पयसि' क्षीरे लवो-विन्दुः, न भवन्ति ताः अशुभदाः असुखदा वा 'तस्य' तीर्थकरस्येति गाथार्थः ।। उक्तमानुषङ्गिकं, प्रकृतद्वारमधिकृत्याह- उत्कृष्टरूपतया भगवतः किं प्रयोजनमिति ?, अत्रोच्यते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org