________________
२०४
आवश्यक मूलसूत्रम्-१चतुर्णामन्यतप्रतिपत्तिरिति, पाठान्तरं वा 'मणुओ चउ अन्नतरं' ति मनुष्यश्चतुर्णामन्यतमप्रतिपद्यते, तिर्यञ्चः त्रीणि वा-सर्वविरतिवर्जानि, द्वे वा-सम्यक्त्वश्रुतसामायिके प्रतिपद्रद्यन्ते इति । यदि नास्ति मनुष्यतिश्चां कश्चित्प्रतिपत्ता ततो नियमत एव सुरेषु सम्यक्त्व-प्रतिपत्तिर्भवतीति गाथार्थः ॥ स चेत्थं धर्ममाचष्टेनि. (५६६) तित्थपणामं काउं कहेइ साहारणेण सद्देणं ।
सव्वेसि सण्णीणं जोयणनीहारिणा भगवं ॥ वृ- 'नमस्तीर्थाये' त्यभिधाय प्रणामं च कृत्वा कथयति, साधारणेन प्रतिपत्तिमङ्गीकृत्य शब्देन, केषां साधारणे-नेत्याह-सर्वेषास्’ अमरनरतिरश्चां सञ्जिनां, किंविशिष्टेन ?-'योजननिर्झरिणा' योजनव्यापिना भगवानिति, एतदुक्तं भवति-भागवतो ध्वनिः अशेषसमवसरणस्थसज्ञिजिज्ञासितार्थप्रतिपत्तिनिबन्धनं भवति, भगवतः सातिशयत्वादिति गाथार्थः।
आह-कृतकृत्यो भगवान् किमिति तीर्थप्रणामं करोतीति ?, उच्यते-- नि. (५६७) तप्पुब्बिया अरहया पूइयपूता य विनयकम्मं च ।
कयकिच्चोऽवि जह कहं कहए नमए तहा तित्थं ॥ कृतीर्थ श्रुतज्ञानं तत्पूर्विका 'अर्हत्ता' तीर्थकरता, तदभ्यासप्राप्तेः, पूजितेन पूजा पूजितपूजा सा च कृताऽस्य भवति, लोकस्य पूजितपूजकत्वाद्, भगवताऽप्येतत्पूजितमिति प्रवृत्तेः, तथा 'विनयकर्म च वक्ष्यमाणवैनयिकधर्ममूलं कृतं भवति, अथवा-कृतकृत्योऽपि यथा कथां कथयति नमति तथा तीर्थमिति । आह-इदमपि धर्मकथनं कृतकृत्यस्यायुक्तमेव, न, तीर्थकरनामगोत्रकर्मविपाकत्वात्, उक्तं च-'तं च कथं वेदिज्जती' त्यादि गाथार्थः ।। आह-क केन साधुना कियतो वा भूभागात् समवसरणे खल्वागन्तव्यम्, अनागच्छतो वा किं प्रायश्चित्त मिति ?, उच्यतेनि. (५६८) जत्थ अपुव्वोसरणं न दिठ्ठपुव्वं व जेन समणेणं ।
बारसहिं जोयणेहिं सो एइ अनागमे लहुया ॥ वृ-यत्रापूर्वं समवसरणं, तत्तीर्थकरापेक्षया अभूतपूर्वमित्यर्थः, न दृष्टपूर्व वा येन श्रमणेन द्वादशभ्यो योजनेभ्यः स आगच्छति, 'अनागच्छति' अवज्ञया ततोऽनागमे सति 'लहुग' त्ति चतुर्लघवः प्रायश्चित्तं भवतीति गाथार्थः ।। द्वारम् ।। अन्ये त्वेकगाथयैवानया प्रकृतद्वारव्याख्यां कुर्वते, साऽप्यविरुद्धा व्युत्पन्ना चेति ।। रूपपृच्छाद्वारावयवार्थ विवृण्वन् आहनि. (५६९) सव्वसुरा जइ रूवं अंगुढ़ापमाणयं विउब्वेजा।
जिनपायंगुटुं पइ न सोहए तं जहिंगालो । वृ. कीग् भगवतो रूपमित्यत आह-सर्वसुरा यदि रूपमशेषसुन्दररूपनिर्माणपणशक्त्या अङ्गुष्ठप्रमाणकं चिकुवीरन् तथापि जिनपादाङ्गुष्ठं प्रति न शोभते तद् यथाऽङ्गार इति गाथार्थः।
साम्प्रतं प्रसङ्गतो गणधरादीनां रूपसम्पदभिधित्सयाऽऽहनि. (५७०) गणहर आहार अनुत्तरा (य) जाव वण चक्कि वासु बला ।
मंडलिया ता हीना छट्ठाणगया भवे सेसा ॥ वृ-तीर्थकररूपसम्पत्सकाशादनन्तगुणहीना गणधरा रूपतो भवन्ति, गणधररूपेभ्यः सका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org