________________
उपोद्घातः - [ नि. ५६० ]
[भा. ११९]
२०३
समहिंदा कप्पसुरा राया नरनारिओ उदीर्णणं । पविसित्ता पुव्युत्तरदिसीएँ चिट्ठति पंजलिआ ।।
वृ- गमनिका - समहेन्द्राः कलपसुरा राजानो नरा नार्यः 'औदीच्येन' उत्तरेण इत्यर्थः, प्रविश्य पूर्वोत्तरदिशि तिष्ठन्ति प्राञ्जलय इति गाथार्थः ॥ भावार्थः सर्वासां सुगम एव ॥ अभिहितार्थो
पसङ्ग्रहाय इदमाह-नि. (५६१)
एक्केकीय दिसाए दिगं दिगं होइ सन्निविट्टं तु । आदिचरिमे विमिस्सा थीपुरिसा सेस पत्तेयं ॥
वृ- पूर्वदक्षिणा अपरदक्षिणा अपरोत्तरापूर्वोत्तराणामेकैकस्यां दिशि उक्तलक्षणम् संयतवैमानिकाङ्गनासंयत्यादि त्रिकं त्रिकं भवति सन्निविष्टं तु आदिचरमे पूर्वदक्षिणापूर्वोत्तरदिग्द्वये विमिश्राः संयतादयः स्त्रीपुरुषाः शेषदिग्द्वये प्रत्येकं भवन्तीति गाथार्थः ।। तेषां चेत्थं स्थितानां देवनराणां स्थितिप्रतिपादनाय आह
नि. (५६२ ) एंतं महिड्डियं पणिवयंति ठियमवि वयंति पणमंता । नवि जंतणा न विकहा न परोप्परमच्छरो न भयं ॥
वृ- येऽल्पर्द्धयः पूर्वं स्थिताः ते आगच्छन्तं महर्द्धिकं प्रणिपतन्ति, स्थितमपि महर्द्धिकं पश्चादागताः प्रणमन्तो व्रजन्ति, तथा नापि यन्त्रणा - पीडा न विकथा न परस्परमत्सरो न भयं तेषां विरोधिसत्त्वानामपि भवति, भगवतोऽनुभावात् इति गाथार्थः ॥
एते च मनुष्यादयः प्रथमप्राकारान्तर एव भवन्ति ये उक्ताः, यत आहनि. (५६३) बिइयंमि होंति तिरिया तइए पागारमंतरे जाणा, । पागारजढे तिरियाऽवि होंति पत्तेय मिस्सा वा ॥
वृ- द्वितीये प्राकारान्तरे भवन्ति तिर्यञ्चः, तथा तृतीये प्राकारान्तरे यानानि, 'प्राकारजढे' प्राकाररहिते बहिरित्यर्थः, तिर्यञ्चोऽपि भवन्ति, अपिशब्दात् मनुष्या देवा अपि, ते च प्रत्येकं मिश्रा वेति, ते पुनः प्रविशन्तो भवन्ति निर्गच्छन्तश्चैके इति गाधार्थः ॥
द्वितीयाद्वारावयवार्थमभिधित्सुः सम्बन्धगाथामाह
नि. (५६४ ) सव्वं च देसविरतिं सम्मं घेच्छति व होति कहणा उ । इहरा अमूढलकखो न कहेइ भविस्सइ न तं च ॥
वृ- 'सव्वं च देसविरति ' ति सर्वविरतिं च देशविरतिं च, विरतिशब्द उभयथापि सम्बध्यते, सम्यक्त्वं ग्रहीष्यति वा भवति कथना तु प्रवर्त्तते कथनमित्यर्थः, 'इहर' ति अन्यथा न मूढलक्षोऽमूढलक्षः सर्वज्ञेयाविपरीतवेत्ता इत्यर्थः किम् ? न कथयति । आह- समवसरणकरणप्रयासो विबुधानामनर्थकः, कृतेऽपि नियमतोऽकथनात् इत्याह - भविष्यति न तच्च यद् भगवति कथयत्यन्यतमोऽप्यन्यतमसत्सामायिकं न प्रतिपद्यते इति, भविष्यत्कालस्त्रिकालोपलक्षणार्थ इति गाथार्थः || 'केवइय' त्ति कियन्ति सामायिकानि मनुष्यादयः प्रतिपद्यन्ते इत्याहनि. (५६५) मनुए चउमन्नयरं तिरिए तिन्नि व दुवे व पडिवजे ।
जइ नत्थि नियमसो चिय सुरेषु सम्मत्तपडिवत्ती ॥
वृ- अथवा-कथं भविष्यति न तच्चेत्याह-यत- 'मनुए' गाहा | व्याख्या - मनुष्ये प्रतिपत्तरि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org