SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ २०२ आवश्यक मूलसूत्रम्-१. नि. (५५९) केवलिनो तिउण जिनं तित्थपणामं च मग्गओ तस्स । मनमादीवि नमंता वयंति सट्ठाणसट्ठाणं ।। वृ. केवलिनः 'त्रिगुणं' त्रिःप्रदक्षिणीकृत्य 'जिन' तीर्थकरं तीर्थप्रणामं च कृत्वा मार्गतः 'तस्य' तीर्थस्य गणधरस्य निषीदन्तीति क्रियाध्याहारः, 'मनमाईविनमंता वयंति सट्ठाणसट्ठाणं ति मनः पर्यायज्ञानिनोऽपि भगवन्तमभिवन्ध तीर्थ केवलिनश्च पुनः केवलिपृष्ठतो निषीदन्तीति। आदिशब्दानिरतिशयसंयता अपि तीर्थकरादीनभिवन्ध मनः पर्यायज्ञानिनां पृष्ठतो निषीदन्ति, तथा वैमानिकदेव्योऽपि तीर्थकरादीनभिवन्द्य साधुपृष्ठतः तिष्ठन्ति न निषीदन्ति, तथा श्रमण्योऽपि तीर्थकरसाधूनभिवन्ध वैमानिकदेवीपृष्ठतः तिष्ठन्ति न निषीदन्ति, तथा भवनपतिज्योतिष्कव्यन्तरदेव्योऽपि तीर्थकरादीनभिवन्ध दक्षिणपश्चिमदिग्भागे प्रथमं भवनपतिदेव्यः ततो ज्योतिष्कव्यन्तरदेव्यः तिष्ठन्तीति, एवं मनःपर्याय-ज्ञान्यादयोऽपि नमन्तो व्रजन्ति स्वस्थानं स्वस्थानमिति गाथार्थः । नि. (५६०) भवणवई जोइसिया बोद्धव्या वाणमंतरसुरा य । वेमाणिया य मनुया पयाहिणं जं च निस्साए । वृ- भवनपतयः ज्योतिष्का बोद्धव्या व्यंतरसुराश्च, एते हि भगवन्तमभिवन्ध साधूंश्च यथोपन्यासमेवोत्तर-पश्चिमे पार्श्वे तिष्ठन्तीत्येवं बोद्धव्याः, तथा वैमानिका मनुष्याश्च, चशब्दात् स्त्रियश्चास्य, चशब्दस्य व्यवहित उपन्यासः । किम् ? 'पयाहिणं प्रदक्षिणां कृत्वा तीर्थकरादीनभिवन्द्य तेऽप्युत्तरपूर्वे दिग्भागे यथासंख्यमेव तिष्ठन्तीति ।। अत्र च मूलटीकाकारेण भवनपतिदेवीप्रभृतीनां स्थानं निषीदनं वा स्पष्टाक्षरैर्नोक्तम्, अवस्थानमात्रमेव प्रतिपादितं, पूर्वाचार्योपदेशलिखितपट्टकादिचित्रकर्मबलेन तु सर्वा एव देव्यो न निषीदन्ति, देवाः पुरुषाः स्त्रियश्च निषीदन्तीति प्रतिपादयन्ति केचन इत्यलं प्रसङ्गेन । 'जं च निस्साए' त्ति, यः परिवारो यं च निश्रां कृत्वा आयातः स तत्पार्श्वे एव तिष्ठतीति गाथार्थः ॥ साम्प्रतमभिहितमेवार्थ संयतादिपूर्वद्वारादिप्रवेशविशिष्टं प्रतिपादयन्नाह भाष्यकार:[भा.११६] संजयवेमणिस्थी संजय (इ) पुब्वेण पविसिउं वीरं । काउं पयाहिणं पुव्वदक्खिणे ठंति दिसिभागे ।। वृ-गमनिका-संयता वैमानिकस्त्रियः संयत्यः पर्वेण प्रवेष्टुं वीरं कृत्वा प्रदक्षिणं पूर्वदक्षिणे तिष्ठन्ति दिग्भागे इति गाथार्थः ।। [भा.११७] जोइसिय भवणवंतरदेवीओ दक्खिणेण पविसंति। चिट्ठति दक्खिणावरदिसिंमि तिगुणं जिनगं काउं ।। वृ-गमनिका-ज्योतिष्कभवनव्यन्तरदेव्यो दक्षिणेन प्रविश्य तिष्ठन्ति दक्षिणापरदिशि त्रिगुण जिनं कृत्वा इति गाथार्थः ॥ [भा.११८] अवरेण भवनवासी वंतरजोइससुरा य अइगंतुं । अवरुत्तरदिसिभागे ठंति जिनं तो नमंसित्ता ।। वृ-गमनिका-अपरेण भवनवासिनो व्यन्तरज्योतिष्कसुराश्चातिगन्तुम् अपरोत्तरदिग्भागे तिष्ठन्ति जिनं नमस्कृत्य इति गाथार्थः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy