________________
२०१
उपोद्घातः - नि.५५३] अत्रोच्यते-- नि. (५५४) साहारणओसरणे एवं जत्यिड्डिमं तु ओसरइ ।
एकु चिय तं सव्वं करेइ भयणा उ इयरेसिं ।। वृ- साधारणसमवसरणे एवं साधारणं -सामान्यं यत्र देवेन्द्रा आगच्छन्ति तत्रैवं नियोगः, 'जस्थिड्डिमं तु ओसरइत्ति यत्र तु ऋद्धिमान् समवसरति कश्चिदिन्द्रसामानिकादिः तत्रैक एव तत्प्राकारादि सर्वं करोति, अत एव च मूलटीकाकृताऽभ्यधायि-“असोगपायवं जिनउच्चत्ताओ बारसगुणं सक्को विउब्वइ" इत्यादि, ‘भयणा उ इतरेसिं' ति यदीन्द्रा नागच्छन्ति ततो भवनवास्यादयः कुर्वन्ति वा न वा समवसरणमित्येवं भजनेतरेषामिति गाथार्थः ॥ नि. (५५५) सूरोदय पच्छियमाए ओगाहन्तीऍ पुवओऽई।
दोहिं पउमेहिं पाया मग्गेन य होइ सत्तऽन्ने ॥ वृ- एवं देवैर्निष्पादिते समवसरणे सूर्योदये-प्रथमायां पौरुष्याम्, अन्यदा पश्चिमायां 'ओगाहंतीए' त्ति अवगाहन्त्याम्-आगच्छन्त्यामित्यर्थः, पुवओऽतीतीति पूर्वद्वारेण 'अतीति'त्ति आगच्छति प्रविशतीत्यर्थः । कथमित्याह--द्वयोः 'पद्मयोः' सहस्त्रपत्रयोः देवपरिकल्पितयोः पादौ स्थापयनिति वाक्यशेषः, 'मग्गेन य होति सत्तऽन्ने'त्ति मार्गतश्च पृष्टतश्च भवन्ति सप्तान्ये च भगवत्ः पद्मा इति, तेषां च यद्यत् पश्चिम् तत्तत्पादन्यासं कुर्वतो भगवतः पुरतस्तिष्ठतीति गाथार्थः ॥ नि. (५५६) आयाहिण पुव्यमुहो तिदिसि पडिरूवगा उ देवकया ।
जेट्ठगणी अन्नो वा दाहिणपुव्वे अदूरंमि ।। वृ-स एवं भगवान् पूर्वद्वारेण प्रविश्य 'आदाहिन' त्ति चैत्यद्रुमप्रदक्षिणां कृत्वा 'पुब्वमुहो'त्ति पूर्वाभिमुख उपविशतीति, 'तिदिसिं पडिरूवगा उ देवकय त्ति शेषासु तिसृषु दिक्षु प्रतिरूपकाणि तु तीर्थकराकृतीनि सिंहासनादियुक्तानि देवकृतानि भवति, स च ज्येष्ठो वाऽन्यो वेति, प्रायो ज्येष्ठ इति, स ज्येष्ठगणिरन्यो वा दक्षिणपूर्वदिग्भागे अदूरे-प्रत्यासन्न एव भगवतो भगवन्तं प्रणिपत्य निषीदतीति क्रियाऽध्याहारः, शेषगणधरा अप्येवमेव भगवन्तमभिवन्ध तीर्थकरस्य मार्गतः पार्श्वतश्च निषीदन्तीति गाथार्थः ।। भुवनगुरुरूपस्य त्रैलोक्यगतरूपसुन्दरतरत्वात् त्रिदशकृतप्रतिरूपकाणां किं तत्साम्यमसाम्यं वेत्याशङ्कानिरासार्थमाहनि. (५५७) जे ते देवेहिं कया तिदिसि पडिरूवगा जिनवरस्स ।
तेसिपि तप्पभावा तयानुरूवं हवइ रूवं ॥ वृ-यानि तानि देवैः कृतानि तिसृषु दिक्षु प्रतिरूपकाणि जिनवरस्य, तेषामपि तत्प्रभावात्' तीर्थकरप्रभावात् 'तदनुरूपं' तीर्थकररूपानुरूपं भवति रूपमिति गाथार्थः ।। नि. (५५८) तित्थाइसेससंजय देवी वेमाणियाण समणीओ ।
भवणवइवाणमंतर जोइमियाणं च देवीओ ॥ दृ-'तीर्थं' गणधरस्तस्मिन् स्थिते सति ‘अतिसेससंजय'त्ति अतिशयिनःसंयताः,तथा देव्यो वैमानिकानां तथा श्रमण्यः तथा भवनपतिव्यन्तरज्योतिष्कानां च देव्य इति समुदायार्थः ।। अवयवार्थप्रतिपादनाय आह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org