SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ २०० आवश्यक मूलसूत्रम्-१शिष्टान्यत आह-छत्रं-प्रतीतं सालभञ्जिकाः-स्तम्भपुत्तलिकाः 'मकर' त्ति मकरमुखोपलक्षणं ध्वजाः प्रतीताः चिह्नानि-स्वस्तिकादीनि संस्थानं तद्रचनाविशेष एव, सच्छोभनानि छत्रसालमञ्जिकामकरध्वजचिह्नसंस्थानानि येषु तानि तथोच्यन्ते, एतानि व्यन्तर-देवाः कुर्वन्तीति । नि. (५४८) तिनि य पागारवरे रयणविचित्ते तहिं सुरगणिंदा । मणिकंचनकविसीसगविभूसिरूते विउव्वेति ॥ वृ-त्रींश्च प्राकारवरान् रलविचित्रान् तत्र सुरगणेन्द्रा मणिकाञ्चनकपिशीर्षकविभूषितांस्ते विकुर्वन्तीति, भावार्थः स्पष्टः, उत्तरगाथायां वा व्याख्यास्यति ।। सा चेयम्नि. (५४९) अमंतर मज्झ बहिं विमानजोइभवणाहिवकया उ । पागारा तिन्नि भवे रयणे कनगे य रयए य ॥ कृ.अभ्यन्तरे मध्ये च बहिविमानज्योतिर्भवनाधिपकृतास्तु आनुपूर्व्या प्राकारास्त्रयो भवन्ति, 'रयणे कनगे य रयए यत्ति रत्नेषु भवो रालः रत्नमय इत्यर्थः, तं विमानाधिपतयः कुर्वन्ति, कनके भवः कानकः तं ज्योतिर्वासिनः कुर्वन्ति, राजतो-रूप्यमयश्च तं भवनपतयः कुर्वन्ति इति गाथार्थः ॥ नि. (५५०) मणिरयणहेमयाविय कविसीसा सव्वरयणिया दारा । सव्वरयणामय च्चिय पडागधयतोरणविचित्ता॥ वृ- मणिरलहेममयान्यपि च कपिशीर्षकाणि, तत्र पञ्चवर्णमणिमयानि प्रथमप्राकारे वैमानिकाः, नानारत्नमयानि द्वितीये ज्योतिष्काः, हेममयानि तृतीये भवनपतय इति, तथा सर्वालमयानि द्वाराणित एव कुर्वन्ति, तथा सर्वरलमयान्येव मूलदलतः पताकाध्वजप्रधानानि तोरणानि विचित्राणि कनकचन्द्रस्वस्तिकादिभिः, अत एव प्रामुक्तं मणिकनकरल चित्रत्वम् एतेषामविरुद्धमिति गाथार्थः ।। नि. (५५१) तत्तो य संमतेणं कालागरुकुंदुरुक्कमीसेणं । गंधेन मनहरेणं धूवघडीओ विउव्वेति ॥ कृततश्च समन्ततः कृष्णागरुकुन्दुरुक्कमिश्रेण गन्धेन मनोहारिणा युक्ताः, किम् ?-धूपघटिका विकुर्वन्ति त्रिदशा एवेति गाथार्थः ॥ नि. (५५२) उक्कुट्टिसीहणायं कलयलसद्देन सव्वओ सव्वं । तित्थगरपायमूले करेंति देवा निवयमाणा ॥ वृ-तत्रोत्कृष्टिसिंहनादं तीर्थकरपादमूले कुर्वन्ति देवा निपतमानाः, उत्कृष्टिः-हर्षविशेषप्रेरितो ध्वनिविशेषः, किंविशिष्टम् ? -कलकलशब्देन 'सर्वतः' सर्वासु दिक्षु युक्तं सर्वम्' अशेषमिति। नि. (५५३) चइदुमपेढछंदय आसनछत्तं च चामराओ य । जं चऽन्नं करणिनं करेंति तं वाणमंतरिया ॥ कृ.चैत्यद्रुमम्-अशोकवृक्ष भगवतः प्रमाणात् द्वादशगुणं तथा पीठं तदधो रलमयं तस्योपरि देवच्छन्दकं तन्मध्ये सिंहासनं तदुपरि छत्रातिच्छत्रं च, चः समुच्चय, चामरे च यक्षहस्तगते, चशब्दात् पद्मसंस्थितं धर्मचक्रं च, यच्चान्यद्वातोदकादि 'करणीयं' कर्त्तव्यं कुर्वन्ति तद् व्यन्तरा देवा इति गाथार्थः । आह-किं यद्यत्समवसरणं भवति तत्र तत्रायमित्थं नियोग उत नेति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy