________________
१६८
आवश्यक मूलसूत्रम्-१ग्रन्थकारवचनत्वात् वर्तमाननिर्देशः सर्वत्र अविरुद्ध एवेति गाथार्थः ॥ [भा.१०७] जिनवरमणुन्नवित्ता अंजनघणरुयगाविमलसंकासा ।
केसा खणेण नीआ खीरसरिनसनामयं उदहिं॥ वृ-गमनिका-शक्रेण-जिनवरमनुज्ञाप्य अञ्जन-प्रसिद्धं घनो-मेघः रुक्-दीप्तिः, अञ्जनघनयो रुक् अञ्जनधनरुक् अञ्जनघनरुग्वत् विमल: संकाशः-छायाविशेषो येषां ते तथोच्यन्ते । अथवा अञ्जनघनरुचकविमलानामिवं संकाशो येषामिति समासः 'रुचकः' कृष्णमणिविशेष एव, क एते ? - केशाः, किम् ? - क्षणेन नीताः, कम् ?-क्षीरसध्शनामानमुदधि' क्षीरोदधिमिति गाथार्थः । अत्रान्तरे च चारित्रं प्रतिप्रत्तुकामे भगवति सुरासुरमनुजवृन्दसमुद्भवो ध्वनिस्तूर्यनिनादश्च शऋयदेशाद् विरराम, अमुमेवार्थं प्रतिपादयन्नाह[भा.१०८] दिव्यो मनूसघोसो तूरनिनाओ अ सक्कवयणेणं ।
खिप्पामेव निलुक्को जाहे पडिवाइ चरितं ।। वृ. गमनिका-'दिव्यो' देवसमुत्थो मनुष्यघोषश्च, चशब्दस्य व्यवहितः संबन्धः, तथा तूर्यनिनादश्च शऋवचनेन क्षिप्रमेव' शीघ्रमेव 'निलुक्कोत्ति' देशीवचनतो विरतः ‘यदा' यस्मिन् काले प्रतिपद्यते चारित्रमिति गाथार्थः । स यथा चारित्रं प्रतिपद्यते तथा प्रतिपिपादयिषुराह[भा.१०९] काऊण नमोक्कारं सिद्धाणमभिग्गहं तु सो गिण्हे ।
सव्वं मे अकरणिज्जं पावंति चरित्तमारूढो ।। वृ- कृत्वा नमस्कारं सिद्धेभ्यः अभिग्रहमसौ गृह्णाति, किंविशिष्टमित्याह-सर्वं 'मे' मम 'अकरणीयं' न कर्त्तव्यं, किं तदित्याह-पापमिति, किमित्याह-चारित्रमारूढ इतिकृत्वा, सच भदन्तशब्दरहितं सामायिकमुच्चारयतीति गाथार्थः ।। चारित्रप्रतिपत्तिकाले च स्वभावतो भुवनभूषणस्य भगवतो निभूषणस्य सत इन्द्रो देवदूष्यवस्त्रमुपनीतवान् इति । अत्रान्तरे कथानकम्-एगेन देवदूसेण पव्वएइ, एतं जाहे अंसे करेइ एत्यंतरा पिउवयंसो धिज्जाइओ उवदिओ. सो अदानकाले कहिंपि पवसिओ आसी, आगओ भजाए अंबडिओ, सामिणा एवं परिचत्तं, तुमं च पुन वणाइ हिंडसि, जाहि जइ इत्थंतरेऽविलभिजासि । सो भणइ-सामि! तुब्भेहिं मम न किंचि दिन्नं, इदाणिपि मे देहि । ताहे सामिणा तस्स दूसस्स अद्धं दिन्नं, अन्नं मे नत्थि परिचत्तंति । तं तेन तुण्णागस्स उवनीअंजहा एअस्स दसिआओ बंधाहि । कत्तोत्ति पुच्छिए भणति-सामिणा दिन्नं, तुण्णाओ भणति-तंपि से अद्धं आणेहि, जया पडिहिति भगवओ अंसाओ, ततो अहं तुण्णामि ताहे लक्खामोल्लं भविस्सइत्ति तो तुज्झवि अद्धं मज्झवि अद्धं, पडिवण्णो ताहे पओलग्गिओ, सेसमुवरि भणिहामि । अलं प्रसङ्गेन ।। तस्य भगवतश्चारित्रप्रतिपत्तिसमनन्तरमेव मनः पर्यायज्ञानमुदपादि, सर्वतीर्थकृतां चायं क्रमो, यत आह[भा.११०] तिहिं नाणेहिं समग्गा तित्थयरा जाव हुंति गिहवासे ।
पडिवण्णमि चरित्ते चउनाणी जाव छउमत्था ।। वृ-'त्रिभिज्ञनिः' मतिश्रुतावधिभिः संपूर्णाः तीर्थकरणशीलास्तीर्थकरा भवन्तीति योगः । किं सर्वमेव कालम् ?, नेत्याह-यावद्गृहवासे भवन्तीति वाक्यशेषः । प्रतिपन्ने चारित्रे चतु निनो, भवन्तीत्यनुवर्तते । कियन्ते कालमित्याह-यावत् छद्मस्थाः तावदपि चतुज्ञानिन इति गाथार्थः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org