SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [ नि. ४६०] १६७ 'स्वच्छन्दविकुर्विताभरणधारिणः क एते ? -देवेन्द्रा दानवेन्द्राः किम् ? -वहन्ति शिविकां 1 " जिनेन्द्रस्येति गाथार्थः ॥ अत्रान्तरे[भा. १०० ] कुसुमानि पंचवण्णाणि मुयंता दुंदुही य ताडंता । देवगणा य पट्टा समंतओ उच्छयं गयणं । वृ- भगवति शिबिकारूडे गच्छति सति नभः स्थलस्थाः कुसुमानि शुकादिपञ्चवर्णानि मुञ्चन्तः तथा दुदुम्भस्ताडयन्तश्च, के ? - 'देवगणाः ' देवसंघाताः चशब्दस्य प्राक्संबन्धी व्यवहितः प्रदर्शित एव, प्रकर्षेण हृष्टाः प्रहृष्टाः, किम् ? -भगवन्तमेव स्तुवन्तीति क्रियाऽध्याहारः । एवं स्तुवद्भिर्देवैः किमित्याह - 'समन्ततः' सर्वासु दिक्षु सर्व 'उच्छयं गगणं' व्याप्तं गगनमिति गाथार्थः ॥ [ भा. १०१] वनसंडोव्व कुसुमिओ पउमसरो वा जहा सरयंकाले । सोहइ कुसुमभरेणं इय गगनयलं सुरगणेहिं ॥ वृ- गमनिका-वनखण्डमिव कुसुमितं पद्मसरी वा यथा शरत्काले शोभते कुसुमभरेणहेतुभूतेन, 'इय' एवं गगनतलं सुरगणैः शुशुभे इतिं गाथार्थः || [ भा. १०२ ] सिद्धत्यवणं च जहा असनवनं सणवणं असोगवणनं । चूअवनंव कुसुमिअं इअगयणयलं सुरगणेहिं ॥ वृ- सिद्धार्थकवनमिव यथा असनवनं, अशनाः- बीजकाः, सणवनं अशोकवनं चूतवनमिव कुसुमितं, 'इअ' एवं गगनतलं सुरगणै रराजेति गाथार्थः ॥ [ भा. १०३ ] अयसिवनं व कुसुमिअं कणिआरवनं व चंपयवनं व । तिलयवनं व कुसुमिअं इअ गयनतलं सुरगणेहिं ॥ वृ- अतसीवनमिव कुसुमितं, अतसी - मालवदेशप्रसिद्धा, कर्णिकारवनमिव चम्पकवनमिव तथा तिलकवनमिव कुसुमितं यथा राजते, 'इअ' एवं गगनतलं सुरगणैः क्रियायोगः पूर्ववदिति गाथार्थः ॥ [भा. १०४ ] चरपडहभेरिझल्लरिदुंदुहिसंखसहिएहिं तूरेहिं । धरणियले गयणयले तूरनिनाओ परमरम्मो ॥ वृ- वरपटहमेरिल्लरिदुन्दुभिशङ्खसहितैस्तयैः करणभूतैः किम् ? - धरणितले गगनतले 'तूर्यनिनादः' तूर्यनिर्घोषः परमरम्योऽभवदिति गाथार्थः ॥ [भा. १०५] , एवं सदेवमणुआसुराएँ परिसाएँ परिवुडो भयवं । अभिव्वंतो गिराहिं संपत्तो नायसंडवणं ॥ वृ- गमनिका--'एवं' उक्तेन विधिना, सह देवमनुष्यासुरर्वर्त्तते इति सदेवमनुष्यासुरा तया, कयेत्याह-परिषदा परिवृतो भगवान् अभिस्तूयमानो 'गीर्भिः' वाग्भिरित्यर्थः संप्राप्तः ज्ञातखण्डवनमिति गाथार्थः ॥ [भा. १०६] } उज्जानं संपत्तो ओरुभइ उत्तमाउ सीआओ । सयमेव कुण लोअं सक्को से पडिच्छए केसे || वृ- गमनिका - उद्यानं संप्राप्तः, 'ओरुहइत्ति' अवतरति उत्तमायाः शिविकायाः, तथा स्वयमेव करोति लोचं, 'शक्रो' देवराजा ' से' तस्य प्रतीच्छति केशानिति, एवं वृत्तानुवादेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy