________________
१६६
आवश्यक मूलसूत्रम्-१
महाहँ, सह पादपीठेनेति सपादपीठं, जिनवरस्य, कृतमिति वाक्यशेषः इति गाथार्थः ।। [भा.९५] आलइअमालमउडो भासुरबोंदी पलंबवनमालो ।
सेययवस्थनियत्थो जस्स य मोल्लं सयसहस्सं ।। [भा.९६] छटेणं भत्तेणं अज्झवसाणेण सोहणेण जिनो ।
लेसाहिं विसुझंतो आरुहई उत्तमं सीअं॥ वृ-आलइअं आविद्धमुच्यते, माला-अनेकसुरकुसुमग्रथिता, मुकुटास्तु प्रसिद्ध एव, माला च मुकुटश्च मालामुकुटौ आविद्धौ मालामुकुटौ यस्येति विग्रहः । भास्वरा-छायायुक्ता बोन्दी-तनुः यस्य स तथाविधः, प्रलम्बा वनमाला-प्रागभिहिता अन्या वा यस्येति समासः । सेययवस्थनियत्थे' त्ति नियत्थं परिहितं भण्णइ, निवसितं श्वेतं वस्त्रं येन स निवसितश्वेतवस्त्रः, बन्धानुलोम्यात् निवसितशब्दस्य सूत्रान्तरे प्रयोगः, लक्षणतस्तु बहुव्रीहौ निष्ठान्तं पूर्वं निपततीति पूर्व द्रष्टव्यः, श्वेतवस्त्रपरिधान इत्यर्थः । यस्य च मूल्यं शतसहस्त्रं दीनाराणामिति गाथार्थः । स एवंभूतो भगवान् मार्गशीर्ष-बहुलदशम्यां हस्तोत्तरानक्षत्रयोगेन 'छटेणं भत्तेणं इत्यादि, षष्ठेन भक्तेन, दिनद्वयमुपोषित इत्यर्थः अध्यवसानं-अन्तः-करणसव्यपेक्षं विज्ञानं तेन 'सुन्दरेण' शोभनेन 'जिनः' पूर्वोक्तः, तथा लेश्याभिर्विशुध्यमानः मनोवाक्कायपूर्विकाः कृष्णादिद्रव्यसंबन्धजनिताः खलु आत्मपरिणाः लेश्या इति, उक्तं च-"कृष्णादिद्रव्यसाचिव्यात, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुजयते ।।" ताभिः विशुध्यमानः, किम् ?-आरोहति 'उत्तमा' प्रधानां शिबिकामिति गाथार्थः ॥ [भा.९७] सीहासने निसन्नो सक्कीसाना य दोहि पासेहिं ।
वीअंति चामरेहिं मणिकनगविचित्तदंडेहि ॥ वृ-तत्र भगवान् सिंहासने निषण्णः शक्रेशानौ च देवनाथौ द्वयोः पार्श्वयोः व्यवस्थितौ, किम् ?-वीजयतः, काभ्याम् ?-चामराभ्यां, किंभूताभ्याम् ? -मणिरत्नविचित्रदण्डाभ्यामिति गाथार्थः । एवं भगवति शिबिकान्ततिनि सिंहासनाढे सति सा शिबिका सिद्धार्थोद्यानयनाय उत्क्षिप्ता ॥ कैरित्याह[मा.९८] पुचि उक्खित्ता मानुसेहिं सा हट्टरोमकूवेहि ।
पच्छा वहति सीअं असुरिंदसुरिंदनागिंदा ।। वृ- 'पूर्व प्रथमं 'उलिप्ता' उत्पाटिता, कैः ?-मानुषैः, सा शिबिका, किंविशिष्टैः ?हृष्टानि रोमकूपानि येषामिति-समासः, तैः । पश्चाद्वहन्ति शिबिकां, के ? -असुरेन्द्रसुरेन्द्रनागेन्द्रा इति गाथार्थः ।। असुरादिस्वरूपव्यावर्णनायाह[भा.९९] चलघवलभूसणधरा सच्छंदविउव्विआभरणधारी ।
देविंददानविंदा वहति सी जिणिंदस्स ॥ - गमनिका-चलाश्च ते चपलभूषणधराश्चेति समासः । चलाः-गमनक्रियायोगात् हारादिचपलभूषणधराश्च । स्वच्छन्देन-स्वाभिप्रायेण विकुर्वितानि-देवशक्त्या कृतानि आभरणानिकुण्डलादीनि धारयितुं शीलं येषामिति समासः । अथवा चलचपलभूषणधरा इत्युक्तं, तानि च भूषणानि किं ते परिनिर्मितानि धारयन्ति उत नेति विकल्पसंभवे व्यवच्छेदार्थमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org