________________
१६०
आवश्यक मूलसूत्रम्-१आदेशं, शिरसि स्वाम्यादेशमिति, वर्षारात्रस्य पञ्चमे पक्षे मासद्वयेऽतिक्रान्ते अश्वयुगबहुलत्रयोदश्यां संहरति पूर्वरात्रे-प्रथमप्रहरद्वयान्त इति भावार्थः, हस्तोत्तरायां त्रयोदशीदिवसे इति गाथार्थः ॥ [भा.५४]
गयगाहा ॥ [मा.५५] एए चोद्दससुमिणे पासए सा माहणी पडिनिअत्ते ।
जं रयणी अवहरिओ कुच्छीआ महायसो वीरो । वृ- पूर्ववत् । इदं नानात्वं-पश्यति सा ब्राह्मणी प्रतिनिवृत्तान् यस्यां रजन्याम् अपहृतः कुक्षितः महायशा वीर इति गाथार्थः ।। [भा.५६]
गयगाहा ।। [भा.५७] एए चोद्दस सुमिणे पासइ सा तिसलया सुहपसुत्ता ।
जं रयणिं साहरिओ कुच्छिसि महायसो वीरो॥ वृ- इदं गाथाद्वयं त्रिशलामधिकृत्य पूर्ववद्वाच्यम् ।। गतमपहारद्वारम्, साम्प्रतमभिग्रहद्वारव्याचिख्यासयाऽऽह[भा.५८] तिहि नाणेहिं समग्गो देवी तिसलाइ सो अ कुच्छिसि ।
अह वसइ सण्णिगब्भो छम्मासे अद्धमासं च ॥ वृ-'अथ' 'पहारानन्तरं वसति संज्ञी चासौ गर्भश्चेति समासः क? -देव्याः त्रिशलायाः स तु कुक्षौ, आह-सर्वो गर्भस्थः संइयेव भवतीति विशेषणवैफल्यं, न, दृष्टिवादोपदेशेन विशेषणत्वात्, स च ज्ञानद्वयवानपि भवत्यत आह-त्रिभिज्ञनिः-मतिश्रुतावधिभिः समनः । कियन्तं कालमित्याह-षण्मासान् अर्धमासं चेति गाथार्थः ॥ [भा.५९] अह सत्तमंमि मासे गब्भत्थो चेवऽभिग्गहं गिण्हे।
नाहं समणो होहं अम्मापिअरंमि जीवंते ।। कृगमनिका-अथ सप्तमे मासे गर्भादारभ्य तयोर्मातापित्रोर्गर्भप्रयलकरणेनात्यन्तम्नेहं विज्ञाय अहो ममोपर्यतीव अनयोः नेह इति यद्यहमनयोः जीवतोः प्रव्रज्यां गृह्णामि नूनं न भवत एतावित्यतो गर्भस्थ एव अभिग्रहं गृह्णाति, ज्ञानत्रयोपेतत्वात् । किंविशिष्टमित्याह-नाहं श्रमणो भविष्यामि मातापित्रोजींवतोरिति गाथार्थः । एवं[भा.६०] दोण्ह वरमहिलाणं गब्भे वसिऊण गब्मसुकुमालो ।
नवमासे पडिपुण्णे सत्त य दिवसे समइरेगे वृ-गमनिका-द्वयोवरमहिलयोः गर्भे उषित्वा गर्भे सुकुमारः गर्भसुकुमारः, प्रायः अप्राप्तदुःख इत्यर्थः । कियन्तं कालम् ? नव मासान् प्रतिपूर्णान् सप्त दिवसान् ‘सातिरेकान्' समधिकान् इति गाथार्थः ॥ [भा.६१] अह चित्तसुद्धपक्खस्स तेरसीपुव्वरत्तकालंमि ।
___ हत्युत्तराहिं जाओ कुण्डग्गामे महावीरो ॥ वृ-गमनिका-'अथ' अनन्तरं चैत्रस्य शुद्धपक्षः चैत्रशुद्धपक्षः तस्य चैत्रशुद्धपक्षस्य त्रयोदश्यां पूर्वरात्रकाले प्रथमप्रहरद्वयान्त इति भावार्थः । हस्तोत्तरायां जातः हस्त उत्तरो यासांता हस्तोत्तरा:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org