________________
उपोद्घातः - [नि.४५८]
१५९ [भा.४७] एए चउदस सुमिणे पासइ सा माहणी सुहपसुता ।
जं रयणि उववन्नो कुञ्छिसि महायसो वीरो ।। वृ. गमनिका-एतान् चतुर्दश महास्वप्नान् पश्यति सा ब्राह्मणी सुखप्रसुप्ता, यस्यां रजन्यामुत्पन्नः कुक्षौ महायशा वीर इति । पश्यतीति निर्देशः पूर्ववत्, पाठान्तरं वा ‘एए चोद्दस सुमिणे पेच्छिआ माहणी' ततश्च दृष्टवतीति गाथार्थः ।। [भा.४८] अह दिवसे बासीई वसइ तहि माहणीइ कुच्छिसि ।
चिंतइ सोहम्मवई, साहरिउं जे जिनं कालो ॥ वृ-गमनिका-अथ दिवसान यशीतिं वसति तस्या ब्राह्मण्याः कुक्षाविति । अथानन्तरं एतावस्तु दिवसेषु अति न्तेषु चिन्तयति सौधर्मपतिः संहर्तुं 'जे' निपातः पादपूरणार्थः, जिनं कालो वर्तते इति गाथार्थः ॥ किमिति संहियत इत्याह[भा.४९] अरहंत चक्कवट्टी बलदेवा चेव वासुदेवा य।
एए उत्तमपुरिसा न हु तुच्छकुलेसु जायंति ॥ वृ-भावार्थः स्पष्ट एव, नवरं 'तुच्छकुलेषु असारकुलेषु इति । केषु पुनः कुलेषु जायन्ते इत्याह[भा.५०] उग्गकुलभोगखत्तिअकुलेसु इक्खागनायकोरव्वे ।
हरिवंसे अ विसाले आयंति तहिं पुरिससीहा ।। वृ-गमनिका-उग्रकुलभोजक्षत्रियकुलेषु इक्ष्वाकुज्ञातकौरव्येषु पुनः कुलेषु हरिवंशे च विशाले 'आयंति' आगच्छन्ति उत्पद्यन्त इत्यर्थः 'तत्र' उग्रकुलादौ 'पुरुषसिंहाः' तीर्थकरादय इति गाथार्थः ।। यस्मादेवं तस्माद् भुवनगुरुभक्त्या चोदितो देवराजो हरिणेगमेषिमभिहितवान्एष भरतक्षेत्रे चरमतीर्थकृत् प्रागुपात्तकर्मशेषपरिणतिवशात् तुच्छकुले जातः, तदयमितः संहृत्य क्षत्रियकुले स्थाप्यतामिति । स हि तदादेशात्तथैव चक्रे ॥ भाष्यकारस्तु अमुमेवार्थं 'अह मणती' त्यादिना प्रतिपादयति[भा.५१] अह भणइ नेगमेसिं देविंदो एस इत्थ तित्थयरो।
लोगुत्तमो महप्पा उववन्नो माहणकुलंमि ॥ वृ- गमनिका-'अथ' अनन्तरं भणति 'नेगमेसिं' ति प्राकृतशैल्या हरिणेगमेषिं देवेन्द्रः 'एष' भगवान् ‘अत्र' ब्राह्मणकुले ‘लोकोत्तमो' महात्मा उत्पन्न इति गाथार्थः ।। इदं चासाधु, ततश्चेदं कुरु[भा.५२] खत्तिअकुंडग्गामे सिद्धत्थो नाम खत्तिओ अस्थि ।
सद्धिस्थ भारिआए साहर तिसलाइ कुच्छिसि ।। वृ-गमनिका-क्षत्रियकुण्डगामे सिद्धार्थो नाम क्षत्रियोऽस्ति, तत्र सिद्धार्थभार्यायाः संहर त्रिशलायाः कुक्षाविति गाथार्थः ॥ [भा.५३] बाढंति भाणिऊणं वासारत्तस्स पंचमे पक्खे ।
साहरइ पुव्वरत्ते हत्थुत्तर तेरसी दिवसे ।। वृ- गमनिका-स हरिणेगमेषिः 'बाढंति भाणिऊणं' ति बाढमित्यभिधाय, अत्यर्थं करोमि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org