________________
१५८
आवश्यक मूलसूत्रम्-१.
वृ-गमनिका राज्यं विहाय प्रव्रज्यां कृतवान् पोट्टिलत्ति' प्रोष्ठिलाचार्यान्तिके 'सयसहस्संति वर्षशतसहस्त्रं याचदिति, कथम् ?, सर्वत्र मासभकतेन-अनवरतमासोपवासेनेति भावार्थः, अस्मिन् भवे विंशतिभिः कारणैः तीर्थकरनामगोत्रं कर्म निकाचयित्वा मासिकया संलेखनयाऽऽत्मानं क्षपयित्वा षष्टिभक्तानि विहाय आलोचितप्रतिक्रान्तो मृत्वा 'पुप्फोत्तरे उक्वन्नोत्ति' प्राणतकल्पे पुष्पोत्तरावतंसके विमाने विंशतिसागरोपमस्थितिर्देव उत्पन्न इति । 'ततो चुओ माहणकुलंमित्ति' ततःपुष्पोत्तराच्चयुतः ब्राह्मणकुण्डग्रामनगरे ऋसभदत्तस्य ब्राह्मणस्य देवानन्दायाः पल्याः कुक्षौ समुत्पन्न इति गाथार्थ ।। कानि पुनविशतिः कारणानि ? यैस्तीर्थकरनामगोत्रं कर्म तेनोपनिबद्धमित्यत आहनि. (४५१-४५६) अरिहंतसिद्धपवयण ।। सणं ॥ अप्पुव ।।
पुरमेण ।। तं च कहं ।। निअमा ॥ वृ- एता ऋषभदेवाधिकारे व्याख्यातत्वान्न विवियन्ते । नि. (४५७) माहणकुंडग्गामे कोडालसगुत्तमाहणो अस्थि ।
तस्स घरे उववन्नो देवानंदाइ कुछिसि ।। वृ-पुष्पोत्तराच्युतो ब्राह्मणकुण्डग्रामे नगरे कोडालसगोत्रो ब्राह्मणः ऋषभदत्ताभिधानोऽस्ति, तस्य गृहे उत्पन्नः, देवानन्दायाः कुक्षाविति गाथार्थः ।। साम्प्रतं वर्धमानस्वामिवक्तव्यतानिबद्धां द्वारगाथामाह नियुक्तिकारःनि. (४५८)सुमिण १ मवहार २ ऽभिग्गह ३ जम्मण ४ मभिसेअ५ वुड्डि ६ सरणं ७ च।
भेसण ८ विवाह ९ वच्चे १० दाणे ११ संबोह १२ निक्खमणे १३ ॥ वृ-गमनिका-'सुमिणेति' महास्वप्ना वक्तव्याः, यान् तीर्थकरजनन्यः पश्यन्ति, यथा च देवानन्दया प्रविशन्तो निष्कामन्तश्च दृष्टाः, त्रिशलया च प्रविशन्त इति । 'अवहारत्ति' अपहरणमपहारः स वक्तव्यो यथा भगवानपहृत इति । 'अभिग्गहेत्ति' अभिग्रहो वक्तव्यः, यथा भगवता गर्भस्थेनैव गृहीत इति । 'जम्मणेति' जन्मविधिर्वक्तव्यः । 'अभिसेउत्ति' अभिषेको वक्तव्यः, यथा विबुधनाथाः कुर्वन्ति, 'बुड्डित्ति' वृद्धिर्वक्तव्या भगवतो यथाऽसौ वृद्धि जगाम। "सरणंति' जातिस्मरणं च वक्तव्यं । 'भेसणेति' यथा देवेन भेषितः तथा वक्तव्यं । विवाहेति' विवाहविधिर्वक्तव्यः । 'अवचेत्ति' अपत्यं-पुत्रभाण्डं वक्तव्यं । 'दाणेत्ति' निष्कमणकाले दानं वाच्यं । “संबोहेति' संबोधनविधिर्वक्तव्यः यथा लोकान्तिकाः संबोधयन्ति । 'निक्खमणेत्ति' निष्क्रमणे च यो विधिरसौ वक्तव्य इति गाथासमुदायार्थः ।। अवयवार्थ तु प्रतिद्वारं वक्ष्यति भाष्यकार एव, तत्र स्वप्रद्वारावयवार्थमभिधित्सुराह-- [भा.४६]गय १ वसह २ सीह ३ अभिसै ४ दाम ५ ससि ६ दिनयरं ७ झयं ८ कुम्भं ।
पउमसर १० सागर ११ विमानभवन १२ रयणुच्चय १३ सिहिं च १४ ॥ वृ-गजं वृषभं सिंहं अभिषेकं दाम शशिनं दिनकरं ध्वजं कुम्भं पद्मसरः सागरं विमानभवनं रलोच्चयं शिखिनं च, भावार्थः स्पष्ट एव, नवरं अभिषेकः-श्रियः परिगृह्यते, दाम-पुष्पदाम रत्नविचित्रं, विमानं च तद्भवनं च विमानभवन-वैमानिकदेवनिवास इत्यर्थः, अथवा वैमानिकदेवप्रच्युतेभ्यः विमानं पश्यति, अधोलोकोवृत्तेभ्यस्तु भवनमिति, न तूभयमिति ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org