________________
उपोद्घातः - [नि.४३९]
१५३ शून्य एव तर्शितक्रियारतो विजहार, आसुरिनामा च शिष्योऽनेन प्रव्राजित इति, तस्य स्वाचारमात्रं दिदेश, एवमन्यानपि शिष्यान् स गृहीत्वा शिष्यप्रवचनानुरागतत्परो मृत्वा ब्रह्मलोक एवोत्पत्रः, स ह्युत्पत्तिसमनन्तरमेव अवधिं प्रयुक्तवान्-किं मया हुतं वा ? इष्टं वा ? दानं वा दत्तं ? येनैषा दिव्या देवर्द्धिः प्राप्तेति, स्वं पूर्वभवं विज्ञाय चिन्तयामास-ममहि शिष्यो न किञ्चिद्वेत्ति, तत्तस्य उपदिशामि तत्त्वमिति, तस्मै आकाशस्थपञ्चवर्णमण्डलकस्थः तत्त्वं जगाद, आह च-'कमिलो अंतद्धिओ कहए' कपिल: अन्तर्हितः कथितवान्, किम् ?-अव्यक्तात् व्यक्तं प्रभवति, ततः षष्टितन्त्रं जातं, तथा चाहुस्तन्मतानुसारिणः
"प्रकतेमहांस्ततोऽहङ्कार स्तस्माद्णश्च षोडशकः ।
तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ।।" इत्यादि, अलं विस्तरेण, प्रकृतं प्रस्तुमः इति गाथार्थः ।। नि. (४४०) इक्खागेसु मरीई चउरासीई अ बंभलोगंमि । .. कोसिउ कुल्लागंमी (गेसुं) असीइमाउं च संसारे ॥
वृ-गमनिका-इक्ष्वाकुषु मरीचिरासीत्, चतुरशीतिं च पूर्वशतसहस्त्राण्यायुष्कं पालयित्वा 'बंभलोयंमि' ब्रह्मलोके कल्पे देवः संवृत्तः, ततश्चायुष्कक्षयाच्युत्वा 'कोसिओ कुल्लाएसुन्ति' कोल्लाकसंनिवेशे कौशिको नाम ब्राह्मणो बभूव, 'असीइमाउं च संसारेत्ति' स च तत्राशीति पूर्वशतसहस्त्राण्यायुष्कमनुपाल्य ‘संसारेत्ति' तिर्यगरनारकामरभवानुभूतिलक्षणे पर्यटित इति गाथार्थः ।। संसारे कियन्तमपि कालमटित्वा स्थूणायां नगर्यां जात इति, अमुमेवार्थं 'थूणाई' त्यादिना प्रतिपादयतिनि. (४४१) थूणाइ पूसमित्तो आउं बावत्तरिं च सोहम्मे ।
चेइअ अग्गिजोओ चोवट्ठीसाणकप्पमि ॥ वृ-स्थूणायां नगर्यां पुष्पमित्रो नाम ब्राह्मणः संजातः ‘आउं बावत्तरि सोहम्मेत्ति' तस्यायुष्कं द्विसप्ततिः पूर्वशतसहस्त्राण्यासीत्, परिव्राजकदर्शने च प्रव्रज्यां गृहीत्वा तां पालयित्वा कियन्तमपि कालं स्थित्वा सौधर्मे कल्पे अजधन्योत्कृष्टस्थितिः समुत्पन्न इति । 'चेइअ अग्गिजोओ चोवट्ठीसाणकप्पंमीति' सौधर्माच्युतः चैत्यसनिवेशे अग्निधोतो ब्राह्मणः संजातः, तत्र चतुःषष्टिपूर्वशतसहस्त्राण्यायुष्कमासीत्, परिव्राट् च संजातो, मृत्वा वेशाने देवोऽजघन्योत्कृष्टस्थितिः संवृत्त इति गाथार्थः ।। नि. (४४२) मंदिरे अग्गिमूई छप्पन्ना उ सणंकुमारंमि ।
सेअवि भारद्दाओ चोआलीसं च माहिंदे ।। वृ- गमनिका-ईशानाच्युतो 'मन्दिरेत्ति' मन्दिरसन्निवेशे अग्निभूतिनामा ब्राह्मणो बभूव, तत्र षट्पञ्चाशत् पूर्वशतसहस्त्राणि जीवितमासीत, परिव्राजकश्च बभूव, मृत्वा ‘सणंकमारंमीति' सनत्कुमारकल्पे विमध्यमस्थितिर्देवः समुत्पत्र इति । 'सेअवि भारद्दाए चोआलीसं च माहिंदेत्ति' सनत्कुमारात् च्युतः श्वेतव्यां नगर्यां भारद्वाजो नाम ब्राह्मण उत्पन्न इति, तत्र च चतुश्चत्वारिंशत् पूर्वशतसहस्त्राणि जीवितमासीत्, परिव्राजकश्चाभवत्, मृत्वा च माहेन्द्रे कल्पेऽजघन्योत्कृष्टस्थितिर्देवो बभूवेति गाथार्थः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org