________________
१५२
आवश्यक मूलसूत्रम् - १
पव्वइओ । सेसा नव चक्किणो सहरसपरिवारा निक्खता । सक्केणं वंदिओ, ताहे भगवं पुव्वसयहस्सं केवलिपरियागं पाउणित्ता परिनिव्वुडो य । आइचजसो सक्केणाभिसित्तो, एवमट्ठपुरिसजुगाणि अभिसित्ताणि । उक्तो गाथार्थः, साम्प्रतमक्षरगमनिका - आदर्शकगृहे प्रवेशः, कस्य ? 'भरहेत्ति' भरतस्य प्राकृतशैल्या षष्ठ्यर्थे सप्तमी, तथा पतनं चाङ्गलीयस्य बभूव, शेषाणां कटकादीनां तून्मोचनं अनुष्ठितं, ततः संवेगः संजातः, तदुत्तरकालं ज्ञानमुत्पन्नमिति, दीक्षा च तेन गृहीता, चशब्दान्निर्वृत्तश्चेत्यक्षरार्थः । उक्तमानुषङ्गिकं इदानीं प्रकृतां मरीचिवक्तव्यतां पृच्छतां कथयतीत्यादिना प्रतिपादयति - तत्र
नि. (४३७)
पुच्छंताण कहेइ उवडिए देइ साहुणी सीसे । गेलन्नि अपडिअरणं कविला इत्यंपि इहयंपि ॥
वृ- गमनिका - पृच्छतां कथयति, उपस्थितान् ददाति साधुभ्यः शिष्यान्, ग्लानत्वे अप्रतिजागरणं कपिल ! अत्रापि इहापि । भावार्थ: स हि प्राग्व्यावर्णितस्वरूपो मरीचिः भगवति निर्वृत्ते साधुभिः सह विहरन् पृच्छतां लोकानां कथयति धर्मं जिनप्रणीतमेव, धर्माक्षिप्तांश्च प्राणिन उपस्थितान् ददाति साधुभ्यः शिष्यानिति । अन्यदा संग्लानः संवृत्तः साधवोऽप्यसंयतत्वान्न प्रतिजाग्रति, स चिन्तयति-निष्ठितार्थाः खलु एते, नासंयतस्य कुर्वन्ति, नापि ममैतान् कारयितुं युज्यते, तस्मात् कञ्चन् प्रतिजागरकं दीक्षयामीति, अपगतरोगस्य च कपिली नाम राजपुत्रो धर्मशुश्रूषया तदन्तिकमागत इति कथिते साधूधर्मे स आह-यद्ययं मार्गः किमिति भवता एतदङ्गीकृतम् ?, मरीचिराह - पापोऽहं, 'लोएंदिये' त्यादिविभाषा पूर्ववत्, कपिलेऽपि कर्मोदयात् साधुधर्मानभिमुखः खल्वाह - तथापि किं भवध्र्शने नास्त्येव धर्म इति, मरीचिरपिप्रचुरकर्मा खल्वयं न तीर्थकरोक्तं प्रतिपद्यते, वरं मे सहायः संवृत्त इति संचिन्त्याह-- 'कविला इत्यंपित्ति' अपिशब्दस्यैवकारार्थत्वात् निरूपचरितः खल्वत्रैव साधूमार्गे 'इहयंपित्ति' स्वल्पस्तु अत्रापि विद्यते इति गाथार्थः ॥ स ह्येयमाकर्ण्य तत्सकाश एव प्रव्रजितः, मरीचिनाऽप्यनेन दुर्वचनेन संसारोऽभिनिर्वर्तितः, त्रिपदीकाले च नीचैर्गोत्रं कर्म बद्धमिति ॥
अमुमेवार्थं प्रतिपादयन्नाहनि. (४३८)
दुब्मासिएण इक्केण मरीई दुक्खसायरं पत्तो भमिओ कोडाकोडिं सागरसरिनामधेजाणं ॥
वृ- गमनिका -- 'दुर्भाषितेनैकेन' उक्तलक्षणेन मरीचिर्दुःखसागरं प्राप्तः भ्रान्तः कोटीनां कोटी कोटीकोटी तां केषामित्याह - 'सागरसरिनामधेजाणंति' सागरसध्शनामधेयारां, सागरोपमाणामिति गाथार्थः ।
नि. (४३९)
तम्मूलं संसारो नीआगोत्तं च कासि तिवईमि । अपडिक्कंतो बंभे कविली अंतद्धिओ कहए ||
वृ- द्वितीयगाथागमनिका - 'तन्मूलं' दुर्भाषितमूलं संसारः संजातः, तथा स एव नीचैर्गेत्रं च कृतवान्-निष्पादितवान् 'त्रिपद्यां' प्राग्व्यावर्णितस्वरूपायामिति । 'अपडिक्कतो बभेत्ति' स मरीचिः चतुरशीतिपूर्वशतसहस्त्राणि सर्वायुष्कमनुपालय तस्मात् दुर्भाषितात् गर्वाच्च 'अप्रातेक्रान्तः' अनिवृत्तः ब्रह्मलोगे दशसागरोपमस्थितिः देवः संजात इति । कपिलोऽपि ग्रन्थार्थपरिज्ञान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org