________________
उपोद्घातः - [नि.४३५
१५१
सति मेधकुमाराः सुरभिणा क्षीरोदजलेन निर्वापितवन्तः । ‘सकथेति' सकथा-हनुमोच्यते, तत्र दक्षिणा हनुमां भगवतः संबन्धिनीं शक्रो जग्राह वामामीशानः आधस्त्यदक्षिणां पुनश्चमरः आधस्त्योत्तरां तु बलिः, अवशेषास्तु त्रिदशाः शेषाङ्गानि गृहीतवन्तः, नरेश्वरादयस्तु भस्म गृहीतवन्तः, शेषलोकास्तु तद्भस्मना पुण्डकाणि चकुः, तव एव च प्रसिद्धिमुपागतानि । 'स्तूपा जिनगृहं चेति' भरतो भगवन्तमुद्दिश्य वर्धकीरत्नेन योजनायाम त्रिगव्यूतोच्छ्रितं सिंहनिषद्यायतनं कारितवान्, निजवर्णप्राणयुक्ताः चतुर्विशतिं जीवाभिगमोक्तपरिवारयुक्ताः तीर्थकरप्रतिमाः तथा भ्रातृशतप्रतिमा आत्मप्रतिमां च स्तूपशतं च, मा कश्चिद् आक्रमणं करिष्यतीति, तत्रैकां भगवतः शेषान् एकोनशतस्य भ्रातृणामिति, तथा लोहमयान् यन्त्रपुरुषान् तद्द्वारपालांश्चकार; दण्डरत्नेन अष्टापदं च सर्वतश्छिन्नवान्, योजने योजने अष्टौ पदानि च कृतवान्, सगरसुतैस्तु स्ववंशानुरागाद्यथा परिखां कृत्वा गङ्गाऽवतारिता तथा ग्रन्थान्तरतो विज्ञेयमिति । याचकास्तेनाहिताग्न यः' इत्यस्य व्याख्या-देवैर्भगवत्सकथादौ गृहीते सति श्रावका देवान् अतिशयाभक्त्या याचितवन्तः, देवा अपि तेषां प्रचरत्वात् महता यलेन याचनाभिद्रुता आहुः-अहो याचका अहो याचका इति, तत एव हि याचका रूढाः, ततोऽग्नि गृहीत्वा स्वगृहेषु स्थापितवन्तः, तेन कारणेन आहिताग्नय इति तत एव च प्रसिद्धाः, तेषां चाग्नीनां परस्परतः कुण्डसंक्रान्तवर्य विधिः-भगवत्ः, संबन्धिभूतः सर्वकुण्डेषु संचरति, इक्ष्वाकुकुण्डाग्निस्तु शेषकुण्डाग्निषु संचरति, न भगवत्कुडण्डाग्नौ इति, शेषानगारकुण्डाग्निस्तु नान्यत्र संक्रमत इति गाथार्यः ।। साम्प्रतमप्रतिहतद्वारगाथाया द्वारद्वयव्याचिख्यासया मूलभाष्यकार आह[भा.४५] थूभसय भाउगाण चउवीसं चेव जिणहरे कासी ।
सव्वजिणाणं पडिमा वण्णपमाणेहि निअएहिं ॥ वृ-गमनिका-स्तूपशतं भाहूणां भरतः कारितवान् इति, तथा चतुविशतिं चैव जिनगृहेजिनायतनानि 'कासीति' कृतवान्, का इत्याह-सर्वजिनानां प्रतिमा वर्णप्रमाणैः 'निजैः' आत्मीयैरिति गाथार्थः ।। साम्प्रतं भरतव्यक्ततानिबद्धां संग्रहगाथां प्रतिपादयन्नाहनि. (४३६) आयंसघरपवेसो भरहे पडणं च अंगुलीअस्स ।
सेसाणं उम्मुअणं संवेगो नाण दिक्खा य ।। वृ-अस्या भावार्थः कथानकादवसेयः, तच्चेदम्-भगवतो निव्वाणं गयस्स आययणं काराविय भरहो अउज्झमागओ, कालेन य अप्पसोगो जाओ, ताहे पुनरवि भोगे भुंजिउं पवत्तो, एवं तस्स पंच पुव्वसयसहस्सा अइक्वंता भोगे भुंजंतस्स, अन्नया कयाइ सव्वालंकारभूसिओ आयंसघरमतिगतो, तत्थ य सव्वंगिओ पुरिसो दीसइ, तस्स एवं पेच्छमाणस्स अंगुलिज्जयं पडियं, तं च तेन न नायं पडियं, एवं तस्स पलोयंतस्स जाहे सा अंगुली दिडिमि पडिया, ताहे असोभंतिआ दिला, ततो कडगंपि अवनेइ, एवमेक्कमवणेतेण सव्वमाभरणमवणीअं, ताहे अप्पाण उच्चियपउम व पउमसरं असोभंतं पेच्छिय संवेगावण्णो परिचिंतिउं पयत्तो-आगंतुगदब्वेहिं मे सरीरगति न सहावसुंदरं, एवं चिंतंतस्स अपुवकरणज्झाणमुवट्ठिअस्स केवलनाणं समुप्पन्नति । सक्को देवस्या आगओ भणति-दव्वलिंगं पडिवजह, जाहे निक्खमणमहिमं करेमि, ततो तेन पंचमुडिओ लोओ कओ, देवयाए रओहरणपडिग्गहमादि उवगरणमुवनीअं, दसहिं रायसहस्सेहिं समं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org