________________
आवश्यक मूलसूत्रम् - १
१५०
मरीचिः 'इदं' वक्ष्यमाणलक्षणं भणति, वर्त्तमाननिर्देशप्रयोजनं प्राग्वदिति गाथार्थः ॥ जइ वासुदेवु पढमो मूआइ विदेहि चक्कवट्टितं । चरमो तित्थयराणं होउ अलं इत्तिअं मज्झ ||
नि. (४३१)
वृ- गमनिका - यदि वासुदेवः प्रथमोऽहं मूकायां विदेहे चक्रवर्त्तित्वं प्राप्स्यामि, तथा 'चरमः' पश्चिमः तीर्थकराणां भविष्यमि एवं तर्हि भवतु एतावन्मम, एतावतैव कृतार्थ इत्यर्थः, 'अलं' पर्याप्तं अन्येनेति । पाठान्तरं वा 'अहो मए एत्तिअं लद्धं' ति गाथार्थः ॥
नि. (४३२)
अहयं च दसाराणं पिआ य मे चक्कवट्टिवंसस्स । अज्जो तित्ययराणं, अहो कुलं उत्तमं मज्झ ॥
- गमनिका - अहमेव, चशब्दस्यैवकारार्थत्वात्, किम् ?, दशाराणां प्रथमो भविष्यामीति वाक्यशेषः, पिता च 'मे' मम चक्रवर्तिवंशस्य प्रथम इति क्रियाऽध्याहारः । तथ 'आर्यक ः ' पितामहः स तीर्थकराणां प्रथमः, यत एवं अतः 'अहो' विस्मये कुलमुत्तमं ममेति गाथार्थः ॥ पृच्छाद्वारं गतम्, इदानीं निर्वाणद्वारावयवार्थाभिधित्सयाऽऽह
नि. (४३३)
अह भगवं भवमहणो पुव्वाणमनूनगं सयसहस्सं । अनुपुव्वि विहरिऊणं पत्तो अड्डावयं सेलं ॥
वृ- गमनिका - अथ भगवान् भवमथनः पूर्वाणामन्यूनं शतसहस्त्रं आनुपूर्व्या विहृत्य प्राप्तोऽष्टापदं शैलं, भावार्थ: सुगम एवेति गाथार्थः ||
नि. (४३४)
अट्ठावयंमि सेले चउदसभत्तेन सो महरिसीणं ।
दसहि सहस्सेहि समं निव्वाणमनुत्तरं पत्तो ।
- गमनिका - अष्टापदे शैले चतुर्दशभक्तेन स महीर्षीणा दशभिः सहस्त्रैः समं निर्वाणमनुत्तरं प्राप्तः । अस्या अपि भावार्थ: सुगम एव, नवरं चतुदर्शभक्तं षड्रात्रोपवासः । भगवन्तं चाष्टापदप्राप्तं अपवर्गजिगमिषु श्रुत्वा भरतो दुःखसंतप्तमानसः पद्भ्यामेव अष्टापदं ययौ, देवा अपि भगवन्तं मोक्षजिगमिषु ज्ञात्वा अष्टापदं शैलं दिव्यविमानारूाः खलु आगतवन्तः, उक्तं च 'भगवति मोक्षगमनायोद्यते -
-
जाव य देवावास जाव य अट्ठावओ नगवरिंदो ।
देवेहिं य देवीहि य अविरहियं संचरतेहिं ||
तत्र भगवान् त्रिदशनरेन्द्रैः स्तूयमानो मोक्षं गत इति गाथार्थः ॥ साम्प्रतं निर्वाणगमनविधिप्रतिपादनाय एनां द्वारगाथामाह
नि. (४३५) निव्वाणं १ चिहगागिई जिनस्स इक्खाग सेसयाणं च २ । सकहा ३ थूभ जिनहरे ४ जायग ५ तेनाहि अग्गित्ति ६ ||
वृ- 'निर्वाणमिति' भगवान् दशसहस्त्रपरिवारी निर्वाणं प्राप्तः, अत्रान्तरे च देवाः सर्व एवाष्टापदमागताः । ‘चितिकाकृतिरिति' ते तिस्त्रः चिता वृत्तत्र्यस्त्रचतुरस्त्राकृतीः कृतवन्तः इति, एकां पूर्वेण अपरां दक्षिणेन तृतीयामपरेणेति, तत्र पूर्वा तीर्थकृतः दक्षिणा इक्ष्वाकूणां अपरा शेषाणामिति, ततः अग्निकुमाराः वदनैः खलु अग्नि प्रक्षिप्तवन्तः, तत एव निबन्धनाल्लोके 'अग्निमुख वै देवाः' इति प्रसिद्धं, वायुकुमारास्तु वातं मुक्तवन्त इति, मांसशोणिते च ध्यामिते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org