________________
उपोद्घातः - [नि.४२४]
१४९ वृ- गमनिका-आदिकरो दशाराणां त्रिपृष्ठनामी पोतना नाम नगरी तस्या अधिपतिः भविष्यतीति क्रिया । तथा प्रियमित्रनामा चक्रवर्ती मूकायां नगर्यां 'विदेहवासंमि' ति महाविदेहे भविष्यतीति गाथार्थः ॥ नि. (४२५) तं वयणं सोऊणं राया अंचियतणूरुहसरीरो ।
अभिवंदिऊण पिअरं मरीइमभिवंदओ जाइ । वृ-गमनिका-'तद्वचन' तीर्थकरवदनविनिर्गतं श्रुत्वा राजा अञ्चितानि तनूरुहाणि-रोमाणि शरीरे यस्य स तथाविधः अभिवन्द्य 'पितरं' तीर्थकरं मरीचिं अभिवन्दिष्यत इत्यभिवन्दको याति । पाठान्तरं वा 'मरीइमभिवंदिउं जाइत्ति' मरीचि याति किमर्थम् ? अभिवन्दितुं-अभिवन्दनायेत्यर्थः, यातीति वर्तमानकालनिर्देशः त्रिकालगोचरसूत्रप्रदर्शनार्थ इति गाथार्थः ।। नि. (४२६) सो विनएण उवगओ काऊण पयाहिणं च तिक्खुत्तो ।
वंदइ अभित्थुणंतो इमाहि महुराहि वग्गूहि ॥ -गमनिका-'सः' भरतः विनयेन-करणभूतेन मरीचिसकाशमुपागतः सन् कृत्वा प्रदशिणं च 'तिक्खुत्तो' ति त्रिकृत्वः तिस्त्रो वारा इत्यर्थः, वन्दते अभिष्टुवन् एताभिः ‘मधुराभिः' वल्गुभिः वाग्भिरिति गाथार्थः ॥ नि. (४२७) लाहा हु ते सुलद्धा जंसि तुमं धम्मचक्कवट्टीणं ।
होहिसि दसघउदसमो अपच्छिमो वीरनामुत्ति ॥ वृ- 'लाभाः' अभ्युदयप्राप्तिविशेषाः, हुकारो निपातः, स चैवकारार्थंः, तस्य च व्यवहितः संबन्धः, 'ते' तव सुलब्धा एव, यस्मात् त्वं धर्मचक्रवर्तिनां भविष्यसि 'दशचतुर्दशमः' चतुर्विशतितम इत्यर्थः, अपश्चिमो वीरनामेति गाथार्थः ॥ तथा- आइगरु० पूर्ववत् ज्ञेया । एकान्तरसम्यग्दर्शनानुरञ्जितहृदयो भावितीर्थकरभक्त्या च तमभिवन्दनायोधतो भरत एवाहनि. (४२८) नावि अ पारिव्वजं बंदामि अहं इमं व ते जम्मं ।
जं होहिसि तित्थयरो अपच्छिमो तेन वंदामि ॥ - गमनिका-नापि च परिव्राजामिदं पारिवाज वन्दामि अहं इदं च ते जन्म, किन्तु यद्भविष्यसि तीर्थकरः अपश्चिमः तेन वन्दे इति गाथार्थः ।। तथानि. (४२९) एवण्हं थोऊणं काऊण पयाहिणं च तिक्खुत्तो ।
आपुच्छिऊण पिअरं विणीअणगरि अह पविट्ठो॥ वृ-गमनिका-एवं स्तुत्वा 'एहमि' ति निपातः पूरणार्थो वर्तते, कृत्वा प्रदक्षिणां च त्रिकृत्वः आपृच्छ्य 'पितरं' ऋषभदेवं विनीतनगरी' अयोध्यां 'अथ' अनन्तरं प्रविष्टो भरत इति गाथार्थः ।। अत्रान्तरेनि. (४३०) तब्बयणं सोऊणं तिवई आप्फोडिऊण तिक्खुत्तो ।
अब्महिअजायहरिसो तत्थ भरीईं इमं भणइ ।। - गमनिका-तस्य-भरतस्य वचनं तद्वचनं श्रुत्वा तत्र मरीचिः इदं भणतीति योगः, कथमित्यत आह-त्रिपदीं दत्त्वा, रङ्गमध्यागतमल्लवत्, तथा आस्फोट्य त्रिकृत्व:-तिस्त्रो वारा इत्यर्थः, किंविशिष्टः सन् इत्यत आह-अभ्यधिको जातो हर्षो यस्येति समासः, तत्र स्थाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org