________________
१२०
आवश्यक मूलसूत्रम् - १
नि. (२२६)
मेवेति गाथार्थः ॥ साम्प्रतं प्रसङ्गतोऽत्रैव ये यस्मिन् वयसि निष्क्रान्ता इत्येतदभिधित्सुराहवीरो अरिनेमी पासो मल्ली अ वासुपुज्जो अ । पढमवए पव्वइआ सेसा पुन पच्छिमवयंमि || वृ- निगदसिद्धैव । गतं प्रत्येकद्वारं, साम्प्रतमुपधिद्वारप्रतिपादनायाहसव्वेऽपि एगदूसेन निग्गया जिनवरा चउव्वीसं । न य नाम अन्नलिंगे नो गिहिलिंगे कुलिंगे वा ५ ॥
नि. (२२७)
वृ- सर्वेऽपि 'एकदूष्येण' एकवस्त्रेण निर्गताः जिनवराश्चतुर्विंशतिः, अपिशब्दस्य व्यवहितः संबन्धः, 'सर्वे' यावन्तः खल्वतीता जिनवरा अपि एकदूष्येण निर्गताः, किं पुनस्तन्मतानुसारिणः न सोपधयः ? ततश्च य उपधिरासेवितो भगवद्भिः स साक्षादेवोक्तः, यः पुनर्विनेभ्यः स्थविरकल्पिकादिभेदभिन्नेन्योऽनुज्ञातः स खलु अपिशब्दात् ज्ञेय इति, चतुर्विंशतीति संख्या भेदेन वर्त्तमानावसर्पिणीतीर्थकरप्रतिपादिकेति । गतमुपधिद्वारम् इदानीं लिङ्गद्वारं सर्वे तीर्थकृतः तीर्थकरलिङ्ग एव निष्क्रान्ताः न च नाम अन्यलिङ्गे न गृहस्थलिङ्गे कुलिङ्गे वा अन्यलिङ्गाद्यर्थ उक्त एवेति गाथार्थः ॥ इदानीं यो येन तपसा निष्क्रान्तस्तदभिधित्सुराह
नि. (२२८) सुमईथ निभत्तेण निग्गओ वासुपूज्ज जिनो चउत्थेणं । पासो मल्लीवि अ अट्ठमेन सेसा उ छद्वेणं ।।
वृ- सुमतिः तीर्थकरः, थेति निपातः, 'नित्यभक्तेन' अनवरतभक्तेन 'निर्गतो' निष्क्रान्तः, तथा वासुपूज्यो जिनश्चतुर्थेन, निर्गत इति वर्त्तते, तथा पार्श्वो मल्लयपि चाष्टमेन, 'शेषास्तु' ऋषभादयः षष्ठेनेति गाथार्थः ॥ साम्प्रतमिहैव निर्गमनाधिकाराद्यो यत्र येषूद्यानादिषु निष्क्रान्त इत्येतत्प्रतिपाद्यतेनि. (२२९)
नि. (२३०)
उसभी अविनीआए बारवईए अरिट्ठवरनेमी । अवसेसा तित्थयरा निक्खंता जम्मभूमीसुं ॥ उसभी सिद्धत्थवणंभि वासुपूजे विहारगेहंमि । धम्म अ वप्पा नीलगुहाए अ मुनिनामा ।। आसमपयंमि पासो वीरजिणिदो अ नायसंडंमि । अवसेसा निक्खता, सहसंबवणंमि उज्जाने ॥
नि. (२३१)
वृ- एतास्तिस्त्रोऽपि निगदसिद्धा एव ॥ इदानीं प्रसङ्गत एव निर्गमनकालं प्रतिपादयन्नाह-नि. (२३२) पासो अरिनेमी सिसो सुमइ मल्लिनामो अ ।
पुव्वण्हे निक्खता सेसा पुन पच्छिमहंमि ॥
वृ- निगदसिद्धा इत्यलं विस्तरेण । गतमुपधिद्वारं, तत्प्रसङ्गत एव चान्यलिङ्गकुलिङ्गार्थोऽपि व्याख्यात एव । इदानीं ग्राम्याचारद्वारावयवार्थं प्रतिपादयन्नाह
नि. (२३३)
गामायारा विसया निसेविआ ते कुमारवज्जेहिं ६ ।
गामागराइएस व केसु विहारो भवे कस्स ? |
वृ. ग्राम्याचारा विषया उच्यन्ते, निषेवितास्ते कुमारवर्षैस्तीर्थकृद्भिः, ग्रामाकरादिषु वा केषु विहारो भवेत् कस्येति वाच्यमिति गाथार्थः ॥ तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org