________________
११९
उपोद्घातः - [नि. २१७१ यावत् इति गाथार्थः । यथा दीयते तथा प्रतिपादयन्नाहनि. (२१८) सिंघाडगतिगचउक्कचच्चरचउमुहमहापहपहेसुं।
दारेसुं पुरवराणं रत्यामुहमज्झयारेसुं॥ नि. (२१९) वरवरिआ घोसिज्जइ किमिच्छ दिजए बहुविहीअं।
सुरअसुरदेवदानवनरिंदमहिआण निक्खमणे ॥ वृ-तत्र शृङ्गाटकं त्रिकं चतुष्कं चत्वरं चतुर्मुखं 'महापथो' राजमार्गः, पथशब्दः प्रत्येकमभिसंबध्यते, सिङ्गाटकं च त्रिकं चेत्यादिद्वन्द्वः क्रियते, तथा द्वारेषु पुरवराणां प्रतोलिषु इति भावार्थः, 'रथ्यामुखानि' रथ्याप्रवेशा ‘मध्यकारा' मध्या एव तेषु रथ्यामुखमध्यकारेष्विति गाथार्थः ।। किं ?, वरवरिका घोष्यते-वरं याचध्वं वरं याचध्वमित्येवं घोषणा समयपरिभाषया वरवरिकोच्यते, किमिच्छकं दीयत इति-कः किमिच्छति ? यो यदिच्छति तस्य तद्दानं समयत एव किमिच्छकमित्युच्यते । एकमपि वस्त्वङ्गीकृत्यैतत्परिसमाप्त्या भवति, अतः बहवो विधयो मुक्ताफलप्रदानादिलक्षणा यस्मिंस्तद्बहुविधिकं । 'सुरअसुरेत्यादि' सुरअसुरग्रहणात् चतुष्प्रकारदेवनिकायग्रहणं, देवदानवनरग्रहणेन तदुपलक्षितेन्द्रग्रहणं वेदितव्यमिति गाथार्थः ।।
इदानीमेकैकैन तीर्थकृता कियइव्यजातं संवत्सरेण दत्तमिति प्रतिपादयन्नाहनि. (२२०) तिन्नेव य कोडिसया अट्ठासीइं च हुंति कोडीओ।
असिइं च सयसहस्सा एअं संवच्छरे दिन्नं ।। वृ- भावार्थः सुगम एव, प्रतिदिनदेयं त्रिभिः षष्ठाधिकैर्वासरशतैः गुणितं यथावर्णितं भवति इति गाथार्थः ।। साम्प्रतमधिकृतद्वारार्थानुपात्येव वस्तु प्रतिपादयन्नाहनि. (२२१) वीरं अरिहनेमि पासं मल्लिं च वासुपुजं च ।
एए मुत्तूण जिने अवसेसा आसि रायाणो॥ नि. (२२२) रायकुलेसुऽवि जाया विसुद्धवंसेसु खत्तिअकुलेसुं ।
न य इथिआभिसेआ कुमारवासंमि पव्वइआ। नि. (२२३) संती कुंथू अ अरो अरिहंता चेव चक्कवट्टी अ ।
अवसेसा तित्थयरा मंडलिआ आसि रायाणो ॥ वृ-एताः तिस्त्रोऽपि निगदसिद्धा एव, परित्यागद्वारानुपातिता तु राज्यं चोक्तलक्षणं विहाय प्रव्रजिता इत्येवं भावनीया ।। गतं परित्यागद्वारं, साम्प्रतं प्रत्येकद्वारं व्यचिख्यासुराहनि. (२२४) एगो भगवं वीरो पासो मल्ली अ तिहि तिहि सएहिं ।
भयवं च वासुपुञ्जो छहि पुरिससएहि निक्खंतो ।। नि. (२२५) उग्गाणं भोगाणं रायण्णाणं च खत्तिआणं च ।
चउहि सहस्सेहुसभो सेसा उ सहस्सपरिवारा ।। - एको भगवान् वीरः-चरमतीर्थकरः प्रव्रजितः, तथा पार्यो मल्लिश्च त्रिभिस्त्रिभिः शतैः सह, तथा भगवाश्च वासुपूज्यः षङ्गिः पुरुषशतैः सह निष्क्रान्तः-प्रव्रजितः । तथा उग्राणां भोगानां राजन्यानां च क्षत्रियाणां च चतुर्भिः सहस्त्रैः सह ऋषभः, किम् ?, निष्क्रान्त इति वर्तते, शेषास्तु-अजितादयः सहस्त्रपरिवारा निष्क्रान्ता इति, उग्रादीनां च स्वरूपमधः प्रतिपादित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org