________________
१०४
आवश्यक मूलसूत्रम्-१.
वृ-तत्र अशोकाद्यष्टमहाप्रातिहादिरूपां पूजामहन्तीति अर्हन्तः-शास्तार इति भावार्थः १ । सिद्धास्तु अशेषनिष्ठितकर्मांशाः परमसुखिनः कृतकृत्या इति भावार्थः २ । प्रवचनं - श्रुतज्ञानं तदुपयोगानन्यत्वाद्वा सङ्घ इति ३ । गृणन्ति शास्त्रार्थमिति गुरवः-धर्मोपदेशादिदातार इत्यर्थः ४ । स्थविराः -जातिश्रुतपर्यायभेदभिन्नाः, तत्र जातिस्थविरः षष्टिवर्षः श्रुतस्थविर:समवायधरः पर्यायस्थविरो विंशतिवर्षर्यायः ५ । बहु श्रुतं येषां ते बहुश्रुताः, आपेक्षिकं बहुश्रुतत्वं, एवमर्थेऽपि संयोज्यं, किंतु सूत्रधरेभ्योऽर्थधराः प्रधानाः तेभ्योऽप्युभयधरा इति ६ । विचित्रं अनशनदिलक्षणं तपो विद्यते येषां ते तपस्विनः सामान्यसाधवो वा ७ । अरहन्तश्च सिद्धाश्च प्रवचनं च गुरवश्व स्थविराश्च बहुश्रुताश्च तपस्विनश्च अर्हत्सिद्धप्रवचनगुरुस्थविरबहुश्रुततपस्विनः। वत्सलभावो वत्सलता, सा चानुरागयथावस्थितगुणोत्कीर्तनायथानुरूपोपचारलक्षणा तया, एतेषामर्हदादीनामिति, प्राक्षष्ट्यर्थे सप्तमी 'बहुस्सुए तवस्सीणं' वा पाठान्तरं, तीर्थकरनामगोत्रं कर्म बध्यत् इति, अभीक्ष्णं-अनवरतं ज्ञानोपयोगे च सति बध्यते ८ । दर्शन-सम्यक्त्वं, विनयोज्ञानादिविनयः, स च दशवैकालिकादवसेयः, दर्शनं च विनयश्च दर्शनविनयौ तयोनिरतिचारः तीर्थकरनामगोत्रं कर्म बजाति ९-१० आवश्यकम्-अवश्यकर्त्तव्यं संयमव्यापारनिष्पन्नं तस्मिंश्च निरतिचारः सन्निति ११ 1 शीलानि च व्रतानि च शीलव्रतानि शीलानि-उत्तरगुणाः व्रतानिमूलगुणाः तेषु च अनतिचार इति १२ । क्षणलवग्रहणं कालोपलक्षणं, क्षणलवादिषु संवेगभावनाध्यानासेवनतश्च बध्यते १३ । तथा तपस्त्यागयोर्बध्यते, यो हि यथाशक्त्या तपः आसेवते त्यागं च यतिजने विधिना करोति १५-१६ । व्यावृतभावो वैयावृत्त्यं, तच्च दशधा, तस्मिन्सति बध्यते १७ । समाधिः-गुदीनां कार्यकरणेन स्वस्थतापादनं समाधौ च सति बध्यते १८। तथा अपूर्वज्ञानग्रहणे सति श्रुतभक्तिः श्रुतबहुमानः, स च विवक्षितकर्मबन्धकारणमिति १९ तथा प्रवचनप्रभावनता च, सा च यथाशक्त्या मादिशनेति २०। एवमेभिः कारणैः अनन्तरोक्तैः तीर्थकरत्वं लभते जीव इति गाथात्रयार्थः ।। नि. (१८२) पुरिमेण पच्छिमेण य एए सव्वेऽवि फासिया ठाणा ।
मज्झिमएहिं जिनेहिं एवं दो तिन्नि सब्वे वा ।। वृ- गमनिका-पुरिमेण पश्चिमेन च एतानि-अनन्तरोक्तानि सर्वाणि स्पृष्टानि स्थानानि, मध्यमैर्जिनैः एकं द्वे त्रीणि सर्वाणि चेति गाथार्थः ।। आहनि. (१८३) तं च कहं वेइजइ ? अगिलाए धम्मदेसणाईहिं ।
बज्झइ तं तु भगवओ तइयभवोसक्कइत्ताणं । वृ-तच्च तीर्थकरनामगोत्रं कर्म कथं वेद्यत इति, अग्लान्या धर्मदेशनादिभिः, बध्यते तत्तु भगवतो यो भवस्तस्मात् तृतीयं भवमवसर्पा, अथवा बध्यते तत्तु भगवतस्तृतीयं भवं प्राप्य, ओसक्कइत्ताणंति - तस्थितिं संसारं वाऽवसर्येति, तस्य ह्युत्कृष्टा सागरोपमकोटीकोटिबन्धस्थितिः, तच्च प्रारम्भबन्धसमयादारभ्य सततमुपचिनोति, यावदपूर्वकरणसंख्येयभागैरिति, केवलिकाले तु तस्योदय इति गाथार्थः । तत्कस्यां गतौ बध्यत् इत्याहनि. (१८४) नियमा मनुयगईए इत्थी पुरिसेयरो य सुहलेसो।
आसेवियबहुलेहिं वीसाए अन्नयरएहिं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org