________________
आवश्यक मूलसूत्रम् - १
वृ- गमनिका - प्रथमद्वितीययोः - कुलकरयोः प्रथमा दण्डनीतिः -हकाराख्या, तृतीयचतुर्थयोरभनवा द्वितीया, एतदुक्तं भवति - स्वल्पापराधिनः प्रथमया दण्डः क्रियते, महदपराधिनो द्वितीययेत्यतश्चभिनवा सेति, सा च मकाराख्या, तथा पञ्चमषष्ठयोः, सप्तमस्य तृतीयैव अभिनवाधिक्काराख्या, एताश्च लघुमध्यमोत्कृष्टापराधगोचराः खल्ववसेय इति गाथार्थः ॥ नि. (१६९) सेसा उ दंडनीई मानवगनिहीओ होति भरहस्स । उसभस्स गिहावासे असक्कओ आसि आहारो ॥
१००
वृ- गमनिका - शेष तु दण्डनीतिः माणवकनिधेर्भवति भरतस्य वर्त्तमानक्रियाभिधानं इह क्षेत्रे सर्वावसर्पिणीस्थिति-प्रदर्शनार्थं, अन्यास्वप्यतीतासु एष्यासु चावसर्पिणीषु अयमेव न्यायः प्रायो नीत्युत्पाद इति, तस्य च भरतस्य पिता ऋषभनाथः, तस्य च ऋषभस्य गृहवासे असंस्कृत आसीदाहारः-स्वभावसंपन्न एवेति, तस्य हि देवेन्द्रादेशादेवाः देवकुरूत्तरकुरूक्षेत्रयोः स्वादूनि फलानि क्षीरोदाचोदकमुपनीतवन्त इति गाथार्थः ||
इयं मूलनियुक्तिगाथा, एनामेव भाष्यकृदू व्याख्यानयन्नाह[मा. ३] परिभासणा उ पढमा मंडलिबंधंमि होइ बीया उ । चारग छविछे आई भरहस्स चउव्विहा नीई ||
वृ- यदुक्तं 'शेषा तु दण्डनीतिर्माणवकनिधेर्भवति भरतस्य' सेयं परभाषणातु प्रथमा, मण्डलीबन्धश्च भवति द्वितीया तु, चारकः छविच्छेदश्च भरतस्य चतुर्विधा नीतिः, तत्र परिभाषणं परिभाषा - कोपाविष्करणेन मा यास्यसीत्यपराधिनोऽभिधानं, तथा मण्डलीबन्धः - नास्मात्प्रदेशाद् गन्तव्यं, चारको - बन्धनगृहं, छविच्छेदः - हस्तपादनासिकादिच्छेद इति, इयं भरतस्य चतुर्विधा दण्डनीतिरिति । अन्ये त्वेवं प्रतिपादयन्ति - किल परिभाषणामण्डलिबन्धौ ऋषभनाथेनैवोतदिताविति, चारकच्छविच्छेदौ तु माणवकनिधेरुत्पन्नी इति, भरतस्य चऋवर्त्तिन एवं चतुर्विधा नीतिरिति गाथार्थः ॥ अथ कोऽयं भरत इत्याह- ऋषभनाथपुत्रः, अथ कोऽयं ऋषभनाथ इति तद्वक्तव्यताऽभिधित्सयाऽऽह - नाभी गाहा । अथवा प्रतिपादितः कुलकरवंशः, इदानीं प्राक्सूचितेक्ष्वाकुवंशः प्रतिपाद्यते स च ऋषभनाथप्रभव इत्यतस्तद्वक्तव्यताऽभिधित्सयाऽऽहनि (१७० ) नाभी विनी अभूमी मरुदेवी उत्तरा य साढा य । राया य चरणाहो विमाणसव्वट्टसिद्धाओ ||
-
वृ- गमनिका इयं हि नियुक्तिगाथा प्रभूतार्थप्रतिपादिका, अस्यां च प्रतिपदं क्रियाऽध्याहारः, स चेत्थम्-नाभिरिति नाभिर्नाम कुलकरो बभूव, विनीता भूमिरिति तस्य विनीताभूमौ प्रायः अवस्थानमासीद्, मरुदेवीति तस्य भार्या, राजा च प्राग्भवे वैरनाभः सन् प्रवज्यां गृहीत्वा तीर्थकरनामगोत्रं कर्म बद्धा मृत्वा सर्वार्थसिद्धिमवाप्य ततस्तस्याः मरुदेव्याः तस्यां विनीतभूमौ सर्वार्थसिद्धाद्विमानादवतीर्य ऋषभनाथः संजातः, तस्योत्तराषाढानक्षत्रमासीत् इति गाथार्थः । इदानीं यः प्राग्भवे वैरनाभः यथा च तेन सम्यक्त्वमवाप्तं यावतो वा भवान् अवाप्तसम्यक्त्वः संसारं पर्यटितः यथा च तेन तीर्थकरनामगोत्रं कर्म बद्धमित्यमुमर्थमभिधित्सुराहनि. (१७१) धनसत्थवाह धोसण जइगमन अडविवासठाणं च । बहुवोलीणे वासे चिता घयदानमासि तया ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org