________________
उपोद्घातः - [नि. १६१ } ततः किमिति चेद्, उच्यते, ततश्च नाभेरपि संख्येयवर्षायुष्कत्वम् ।। यत आहनि. (१६२) जं चेव कुलगराण तं चेव होइ तासिपि ।
जं पढमगस्स आउं तावइयं चेव हथिस्स ।। वृ- गमनिका-यदेव आयुष्कं कुलकराणां तदेव भवति तासामपि-कुलकराङ्गनानां, संख्यासाम्याच्च तदेवेत्यभिधयीते, तथा यत्तु प्रथमस्यायुः कुलकरस्य, तावदेव भवति हस्तिनः, एवं शेषकुलकरहस्तिनामपि कुलकरतुल्यं द्रष्टव्यमिति गाथार्थः ॥
इदानीं भागद्वार-कः कस्य सर्वायुष्कात् कुलकरभाग इतिनि. (१६३) जं जस्स आउयं खलु तं दसभागे समं विभइऊणं ।
मज्झिलट्ठति भागे कुलगरकालं वियाणाहि ॥ वृ- यद्यस्यायुष्कं खलु तद् दशभागान् समं विभज्य मध्यमाष्टत्रिभागे कुलकरकालं विजानीहीति गाथार्थः ।। अमुमेवार्थं प्रचिकटयिषुराहनि. (१६४) पढमो य कुमारत्ते भागो चरमो य वुभावंमि ।
ते पयणुपिज्जदोसा सब्वे देवेसु उववन्ना ।। वृ-गमनिका-तेषां दशानां भागानां प्रथमः कुमारत्वे गृह्यते,भागः चरमश्च वृद्धभाग इति, शेषा मध्यमा अष्टौ भागाः कुलकरभागा इति, अत एवोक्तं 'मध्यमाष्टत्रिभागे' इति, मध्यमाश्च ते अष्टौ च मध्यमाष्टौ त एव च त्रिभागस्तस्मिन् कुलकरकालं विजानीहि, गतं भागद्वारं, उपपातद्वारमुच्यते-ते प्रतनुप्रेमद्वेषाः, प्रेम रागे वर्तते, द्वेषस्तु प्रसिद्ध एव, सर्वे विमलवाहनादयो देवेषु उपपन्ना इति गाथार्थः ॥ न ज्ञायते केषु देवेषु उपपन्ना इति, अत आहनि. (१६५) दो चेव सुवण्णेसु उदहिकुमारेसु हुंति दो चेव ।
दो दीवकुमारेसुं एगो नागेसु उववन्नो ।। वृ- गमनिका-द्वावेव सुपर्णेषु देवेषु उदधिकुमारेषु भवतः द्वावेव द्वौ द्वीपकुमारेषु एको नागेषु उपपन्नः, यथासंख्यमयं विमलवाहनादीनामुपपात इति गाथार्थः । इदानीं तत्स्त्रीणां हस्तिनां चोपपातमभिधिसुराहनि. (१६६) हत्थी छच्चित्थीओ नागकुमारेसु हुँति उववन्ना ।
एगा सिद्धिं पत्ता मरुदेवी नाभिणो पत्ती ॥ कृ गमनिका हस्तिनः षट् स्त्रियश्चन्द्रयशाद्या नागकुमारेषु भवन्ति उपपन्नाः, अन्ये तु प्रतिपादयन्ति-एक एव हस्ती षट् स्त्रियो नागेषु उपपन्नाः, शेषैाधिकार इति, एका सप्तमी सिद्धिं प्राप्ता मरुदेवी नाभेः पत्नीति गाथार्थः ।। उक्तमुपपातद्वारं, अधुना नीतिद्वारप्रतिपादनायाहनि. (१६७) हक्कारे मक्कारे धिक्कारे चेव दंडनीईओ।
वुच्छं तासि विसेसं जहक्कम आनुपुब्बीए ॥ वृ-गमनिका-हक्कारः मक्कारः धिक्कारश्चैवं दण्डनीतयो वर्तन्ते, वक्ष्ये तासां विशेषं यथाक्रमया यस्येति, आनुपूर्व्या-परिपाट्येति गाथार्थः ।। नि. (१६८) पढमबीयाण पढमा तइयचउत्थाण अभिनवा बीया ।
पंचमछट्ठस्स य सत्तमस्स तइया अभिनवा उ ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org