SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १. मूलं : १, [भा. २८५] वृ-ज्ञानार्थ दर्शनार्थंचोपसंपत्प्रत्येकं त्रिधा, तद्यथासूत्रंचार्थश्चतदुभयंचसूत्रार्थतदभयंतस्मिन् सूत्रेष्वेतदुभयस्मिंश्चेत्यर्थेनिमित्तंसप्तमीचेयं ततयों भावार्थः । ज्ञानार्थं दर्शनार्थंचोपसंपद्यमानः प्रत्येकं सूत्रार्थं वा उपसंपद्यते अर्थार्थं वा तदुभयार्थं चेति पुनरेकेकं त्रिधा तद्यथा वर्त्तनेति अत्र सप्तमीलोपः प्राकृतत्वात् वर्तनायां । वर्तनानिमित्तं एवमेव संधनायां संधनानिमित्तं तत्र पूर्वगृहीतस्य सूत्रार्थस्य तदुभयस्य वा ग्रहणनिमित्तं, एवं ज्ञाने दर्शने च प्रत्येकं भवति त्रिधा उपसंपत् चरणोपसंपदा पुनरुपसंपद्यमानो द्विधोपसंपद्यते, तद्यथा वैवावृत्तनिमितं क्षपणे क्षपणानिमितं ते च द्विधापि उपसंपद्यमानाः कालतो यावज्जीवंभवेयुः । चशब्दादित्वराश्च एनामेवगाथांव्याख्यानयति - [भा.२८६] सणनाणेसुत्तत्थतदुभये वत्तणा य एकेके । उवसंपया चरिते वेयावच्चे यखमणेय ।। वृ-दर्शनविशोधिकानि यानिसूत्राणिशास्त्राणिवातानिदर्शनं,शेषाणिसूत्राणिशास्त्राणिवा ज्ञानं, तत्रदर्शनेज्ञानेच प्रत्येकमुपसंपत्रिधा, सूत्रनिमित्तमर्थनिमित्तंतदुभयनिमित्तंच, एकैकस्मिंश्चसूत्रादी प्रत्यकं वर्तनादि त्रिभेदं वर्तना संधना ग्रहणं च, किमुक्तं भवति सूत्रेपि वर्तनानिमित्तमुपसंपद्यते, संधनानिमित्तमुपसंपद्यते, अपूर्वग्रहणनिमित्तं वा उपसंपद्यते, एवमर्थेपि त्रितयमुभयेपि त्रितयमिति, दर्शनेपि नवविधोपसंपत्ज्ञानेपिनवविधेति, चारित्रेचारित्रविषया उपसंपत् वैयावृत्ते क्षपणेच । [भा.२८७] सुद्धपरिच्छन्नो लहुगा अकारते सारणा अनापुच्छा । तीसुविमासोलहुत्तोवत्तणादीसुठाणेसु ।। वृ- यत् गुरुसकाशे सूत्रं तत्सर्वमधीतं ततो गुरुभिरनुज्ञातो विधिना आपृच्छय वजिकादिष्वप्रतिबध्यमान आगतः । आगतश्चसन्त्रीन्दिवसान्यावत् परीक्षितः शुद्धः इत्थंभूतंयोन प्रतीच्छत्याचार्यस्तस्य प्रायश्चित्तं लघुकाश्चत्वारो लघुमासाः, योपि उपसंपन्नो वर्तमाननिमित्तं संधनानिमित्तं ग्रहणनिमित्तं वा स यदि वर्तनां संधनां ग्रहणं वा न करोति तदा तस्मिन् वर्तनादिकमकुर्व्वति प्रत्येक त्रिष्वपि स्थानेषु वर्तनादिषु मासो लधुकः प्रायश्चित्तं, आचार्योपि यद्युपसंपन्नं प्रमाद्यंतं न सारयति ततस्तस्मिन्नपि सारणे अत्र विभक्तिलोपआर्षत्वात् । अकुर्वति त्रिष्वपि वर्तनादिषु स्थानेषु मासलघु एतच्च प्रायश्चित्तविधानं सूत्रविषयमर्थे पुनर्वर्तनादिमकुति शिष्य अर्थनिमित्तमुपसंपन्नं प्रमातं वर्तनादिष्वसारयतिगुरौच प्रत्येकंत्रिष्वपिवर्तनादिपुस्थानेषुप्रायश्चित्तंमासगुरु, उभयविषयेषुद्वयोरपि प्रत्येकं वर्तनादिषु त्रिष्वपि स्थानेषु पृथक् उभयं प्रायश्चित्तं मासगुरु मासलघु चेति, एवं गाथायामनुक्तमपिसंप्रदायादवसितं, तथा अणापुच्छाइति अनापृच्छायामनुज्ञामित्यर्थः अत्र चत्वारो भंगास्तद्यथाअननुज्ञातोऽननुज्ञातेन सहवर्तनांकरोतीत्येकोभंगः, अननुज्ञातोऽनुज्ञातेनसहेति द्वितीयः, अनुज्ञातोअननुज्ञातेनेतितृतीयः अनुज्ञातो अनुज्ञातेनेतिचतुर्थः एवं संधनायांग्रहणेपिच प्रत्येकंचत्वारो भंगाः एवमर्थेपि तदुभयस्मिन्नपि च प्रत्येकं वर्तनादिषु चत्वारश्चत्वारो भंगाः तत्र सुत्रविषये त्रिष्वपि वर्तनादिषु स्थानेषुप्रत्येकमायेषुभंगेषुददानस्यचगृहाणस्य च प्रायश्चित्तंमासलघुतपः कालविशेषितं तद्यथा वर्तनायामायेषु त्रिषुभंगेषु मासलघु, संधनायां मासलघु तपो गुरुकाललघु, ग्रहणे मासलघु, द्वाभ्यां गुरु तद्यथा - तपसा कालेन च, एवमर्थे तपः कालविशेषितंमासगुरु । तदुभयस्मिन् तदुभयप्रायश्चित्तमर्थं विषयं तदुभयविषयं च प्रायश्चित्तं गाथायानुपात्तमपि व्याख्यानादुपगतंच: चतुर्थभंगः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy