SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ व्यवहार - छेदसूत्रम्-१-१/१ एवंभूतदोषवान् त्वमत्रागतः ततः स्फुटरुक्षे भाषिते सति स्फूटं नाम सद्भूतदोषोच्चारणं, रुक्षं स्नेहोपदर्शनहितं,यदिवास्फुटमेवपरस्यरुक्षतोत्पादनात्,रुक्षस्फुटकक्षतस्मिन् भाषितेतत्भाष्यमाणं वचस्तेषां विद्वेषकरं विद्वेषोत्पादकं भवति । अगीतार्थत्वात्, चिंतयंतिच मत्सरभावनेते सूत्रमर्थवान प्रयच्छंति, ततो मत्सरिण एते इति, एवं च चिंतयित्वा स्वपक्षे परपक्षे च मत्सरिण एते इति प्रकाशयंति ततो लोके मत्सरिप्रवादो विद्वेषकरं च तद्वचस्तेषां माभूदिति प्रागुक्तयतनया निवारणा क्रियते, न च मायामृषादोषसंभवो यतः पराप्रीत्यनुपादकतया परिणामसुंदरतया चोभयोरपिगुणकारित्वमवेक्ष्य तथा वाग्यतना क्रियते, नविप्रतारणबुद्ध्येति । एतेषामेव प्रतीच्छने अपवादमाह - [भा.२८२] निगमसुद्धमुवाएण, वारियं गेण्हतेसमाउढें । अहिगरणपडिनि अनुबद्ध मेगागिजढंनसाएजा ।। वृ-निर्गमोऽशुद्धोयस्यस निर्गमाशुद्धस्तंउपायेन प्रागुक्तयतनालक्षणेनवारितसमावृत्तंसंतंगृह्णाति, किमुक्तं भवति यदि स तथा प्रतिषिद्धः सन ब्रूते, भगवन् मिथ्या मे दुःकृतं न पुनरेवं करिष्यामि किंतु यथायूयंभणिष्यथ,तथाकरिष्यामि मुक्तो मयास पापस्वभावो दुर्गतिवर्द्धन इति,तत एवं तंसमावृत्तं गृह्णाति, किं सर्वमपि नेत्याह अहिंगरणेत्यादि नेत्याह अहिगरणेत्यादि योऽधिकरणं कुत्वा समागतस्तं यश्च तत्र मे प्रत्युनीकोस्तीत्युक्तवान् तं तथा अनुबद्धरोपं येन च पश्चादेकाकी आचार्यस्त्यक्तस्तंच न साएजा न सात्मयेत् न सात्मीकुर्यात् न स्वीकुर्यादिति भावः केवलं प्रत्यनीके अपवादोस्ति तमेवाभिधित्सुराह - भा.२८३] पडिनीयंमिउभयणा, गिहिम्मिं आयरियमादिदुटुंमि । संजवपडिनीए पुन,न होति उवसामिएभयणा ।। वृ- प्रत्यनीके भजना तामेवाह । गृहिणि गृहस्थे आचार्यादिदुष्टे किमुक्तं भवति, यदि कोपि नाम गृहस्थ आचार्यस्य आदिशब्दात् उपाध्यायप्रवर्तिस्थविरगणवच्छेदानां शेषभिक्षूणां च प्रद्विष्टः स चानेकधाउपशम्यमानोपिनोपशांतस्ततस्तस्मिन्आचार्यादिप्रदेष्टे गृहिणयनुपशांतेतद्भयादागतः सन् प्रतिगृह्यतेयदिपुनः सब्रूयात्संयतोमेतत्र प्रत्यनीकोस्तिततस्तस्मिन् संयतप्रत्यनीकेन भवत्युपसंपत नप्रतिसंगृह्यते इत्यर्थः । अथवासभण्यते गच्छत्वंतंक्षमयित्वा समागच्छ एवमुक्तोयदि तत्र गत्वातं नक्षमयतिततोनसप्रतिगृह्यते अथ तेन गत्वाऽसौ क्षामितः केवलंस एव नक्षमते, तर्हिस पश्चादागतः प्रतिग्राह्यः ।अथसवक्तिमयासतदानीमेवागच्छताक्षामितः । तदातस्मिन्नुपशांतेसनियमात्प्रतिगृह्य एवनभवतिभजना निर्दोषत्वात् ।। भा.२८४] सोपुन उवसंपन्जे, नाणट्ठा दंसणे चरितेय । एएसिं नाणत्तं वोच्छामि अहानुपुव्वीए ।। वृ-स पुनरुक्तप्रकारेण संगृह्यमाण उपसंपद्यते ज्ञानार्थं ज्ञाननिमित्तं दर्शन दर्शननिमित्तं सप्तम्या निमित्ते विधानात् दर्शनप्रभावकशास्त्रनिमित्तमित्यर्थः चारित्रार्थं चारित्रनिमित्तं एतेषां ज्ञानाद्यर्थमुपसंपद्यमानानां नानात्वं भेदं यथोपन्यासं या अनुपूर्वी सा यथानुपूर्वी तया वक्ष्यामि प्रतिज्ञातमेव निर्वाहयति। भा.२८५) वत्तणासंधणाचेव गहणे सुत्तत्थ तदुभये | वेयावच्चखमणे काले आवकहाएअ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy