SearchBrowseAboutContactDonate
Page Preview
Page 978
Loading...
Download File
Download File
Page Text
________________ उद्देशकः-१०, मूलं-२५१, [ भा. ४३५८ ] ४९३ पुनराहारो दीयते । तत आहभा.[४३५९] हंदि परीसहचमू जोहेयव्वा मणेण काएण। तो मरणदेसकाले कवयभूओ उ आहारो ।। व.हंदीति चोदकामन्त्रणे हे चोदक परीपहचमः परीपहसेना मनसा कायेनोपलक्षणमेतत वाचा च योधेन योधयितव्या ततस्तस्याः पराजयनिमित्तं मरणदेशकाले मरणसमये योधस्य कवचभूत आहारो दीयते । एतदेव विभावयिपरिदमाहभा.[४३६०] संगामदुगं महसिलरहं मुसले चेव परूवणा। असुरसुरिंदावरणं, चेडग एगो गहं सरस्स ।। वृ.चेटकस्य कोणिकस्य च परस्परं विग्रह कोणिकपक्ष संग्रामद्वयमसुरेन्दोरऽमरः कृतवान् तद्यथा-महाशिलाकंटकं रथमुशलं च तस्य प्ररूपणा यथा व्याख्याप्रज्ञप्तौ तथा कर्तव्या । असुरेन्द्रेण च शक्रेण कोणिकस्यावरणं कृतं कठिनवज्रमयप्रतिरूपके स क्षिप्त इत्यर्थः । ततश्चेटकस्य एक: सारथि: कोणिकवधाय शरस्य कनकप्रवहणविशेषरूपस्य यद्ग्रहं कृतवान्। भा.[४३६१] महसिलकंटे तहियं वटुंते कोणिउ उरहिएण। रक्खग्गविलग्गेण पट्टे पहउ उ कनगेणं ॥ भा.[४३६२] उफिडिउ सो कनगो कवयावरणमि तो तउ पडिउ। तो तस्स कोणिएण सीसं च्छिन्नं खुरप्पेणं ।। वृ. ततो महाशिलाकण्टके संग्रामे वर्तमाने कोणिकञ्चेटकस्य रथिकेन निरन्तरशरमोक्षणतः आच्छादितः परं ते सर्वेऽपि शराः कठिनप्रतिरूपके ऽभ्यट्य बही: पतितं ततो वृक्षमारुह्य तद्विलग्नेन कोणिक: पृष्टे कनकेन प्रवहणविशेषेण प्रहतः सोऽपिकवचावरणे कठिनप्रतिरूपके उत्स्फिट्य पतित: ततः कोणिकेन तं तथाध्यवसायं वृक्षविलग्नमवलोक्य कोपावेशात्तस्य शिरः क्षुरप्रेण च्छिन्नम्। भा. [४३६३] दिटुंतस्सोवणउ कवयत्थाणी इहं तहाहारो। सत्तू परीसहा खलु आराधनरज्जथाणीया । वृ. एषो अनन्तरोदिषो दृष्टान्तोऽयं तस्योपनय:-कवचस्थानीय इह तथा रूप आहार:, शत्रवः परीषहा राज्यस्थानीया आराधना यथा शत्रुपराजयाय कवचमारोप्यते सङ्ग्रामे, तथा परीपहजयाय चरमकाले दातव्य आहारः । अत्रैव दृष्टान्तान्तरमाहभा.[४३६४] जह वा उंढिय पादे पाउं काउण हथिणो पुरिसे। आरुहइ त(ह)प्परिण्णी आहारेणं तु ज्झाणवरं॥ वृ.यथा वा कोऽपि हस्तिनमारोढुमशक्तो हस्तिनं पादमाकुञ्चापयति, आकुञ्चाप्य तस्मिन् पादे आत्मीयं पादं कृत्वा हस्तिनमारोहति तथा परिज्ञी भक्तपरिज्ञावान् आहारेण ध्यानवरमुत्तमं ध्यानमारोहति। भा. [४३६५] उवकरणेहिं विहूणो जह वा पुरिसो न साहए कज्जं । एवाहार परिणी दिटुंता तत्थिमे हंति ॥ वृ.यथा पुरुष उपकरणैर्दात्रादिभिर्विहीनो न साधयति लघनादिकं कार्यमेवमाहारमन्तरेण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy