________________
४६४
व्यवहार-छेदसूत्रम्-२- १०/२५१ भा. [४१८४] आलोयणा विवेगो य नियंट्ठस्स दुवे भवे।
विवेगो य सिणायस्स एमेया पडिवत्तितो॥ वृ.आलोचनाप्रायश्चित्तं विवेकप्रायश्चित्तमित्येते द्वे प्रायश्चित्ते निर्ग्रन्थस्य भवतः । स्नातकस्य केवल एको विवेकः एवमेताः पुलाकादिषु प्रतिपत्तयः। . भा. [४१८५] पंचेव संजया खलु नायसुणए कहिया जिनवरेणं।
तेसिं पायच्छित्तं अहक्कम कित्तइसामि ।। वृ. ज्ञातसुतेन जिनवरेण वर्धमानस्वामिना पञ्चैव खलु संयता: कथितास्तेषां यथाक्रम प्रायश्चित्तं कीर्तयिष्यामि । तदेव कीर्तयतिभा.[४१८६] सामाइसंजयाणं पायच्छित्ता च्छेदमूलरहियट्ठा।
थेराण जिणाणं पुण तवमंतं छव्विहं होइ ।। वृ. सामायिकसंयतानां स्थविराणां स्थविरकल्पिकानां च्छेदमूलरहितानि शेषाण्यष्टौ प्रायश्चित्तानि भवन्ति, जिनानां जिनकल्पिकानां पुनः सामायिकसंयतानां तपः पर्यन्तं षड्विधं प्रायश्चित्तं भवति । भा. [४१८७] छेदोवट्ठावणिए पायच्छित्ता हवंति सब्वेवि।
थेराण जिणाण पुण मूलत अट्ठहा होइ । वृ. छेदोपस्थापनीये संयमे वर्तमानानां स्थविराणां सर्वाण्यपि प्रायश्चित्तानि भवंति, जिनकल्पिकानां पुनर्मूलपर्यन्तमष्टधा भवति, भा. [४१८८] परिहारविसुद्धीए मूलं ता अट्टाति पच्छिता।
थेराणं जिणाणं पुण छव्विहं छेयादिवज्जं वा ।। वृ. परिहारविशुद्धके संयमें वर्तमानानां स्थविराणां मूलान्तान्यष्टौ प्रायश्चित्तानि भवन्ति, जिनानां पुनः च्छेदादिवयं षड्विधं । भा. [४१८९] आलोयणा विवेगो य तइयं तु न विज्जती।
सुहुमे य संपराए अहक्खाए तहेव य॥ वृ.सूक्ष्मसंपराये यथाख्यते च संयमे वर्तमानानामालोचना विवेक इत्येवं रूपे द्वे प्रायश्चित्ते भवतस्तृतीयं तु न विद्यते, ततः प्रस्तुते किमायातमिति चेदत आहभा. [४१९०] बउसपडिसेवया खलु इत्तरिच्छेया य संजया दोन्नि ।
जातित्थणुसंजत्ती अस्थि हु तेणं तु पच्छित्तं ।। वृ.निर्ग्रन्थचिन्तायां बकुशः प्रतिसेवक: प्रतिसेवनाकुशील इत्येतौ द्वौ निर्ग्रन्थो संयतचिन्तायां इत्वरीत्वरसामायिकवान् च्छेदं च्छेदोपस्थाप्यश्चेति द्वौ संयतौ यावतीर्थं तावदनुषजतोऽनुवर्तेते तेन ज्ञायते । अस्ति सम्प्रत्यपि प्रायश्चित्तं, गतमस्तीति द्वारमधुना न दीसइ धणिएण विनेति व्याख्यानार्थमाहभा.[४१९१] जइ अस्थि न दीसंति केइ करेंति तत्थ वणिज्ज दिटुंतो।
संतमसंते विहिणा मोयंता दोविमुच्चंति ।। वृ. चोदक: प्राह- यद्यस्ति प्रायश्चित्तं ततः कस्मात्केचित् कुर्वन्तो न दृश्यन्ते । सूरिराह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org