________________
उद्देशक:-१०, मूलं-२५१, [भा, ४१७७ ]
वृ.आलोचनां प्रायश्चित्तं प्रतिक्रमणं मिथ्यादुष्कृतप्रदानलक्षणं मिश्रमालोचनाप्रतिक्रमणात्मकं विवेकः परिष्ठापनं व्युत्सर्गः तपश्चतुर्थादिपण्मासपर्यन्तं । च्छेदप्रव्रज्यापर्यायस्य दिनैर्मासर्वा परिहानिः । मूलं पुनर्वतारोपणं । अनवस्थाप्यं पारञ्चितं च अमीषां च दशानां स्वरूपं प्रपञ्चत: पीठिकायामुक्तं कल्पाध्ययने वा । ततस्तस्मादवधार्यं तदेवं सपयपरूवणेति गतमधुना अनुसज्जणा य दस चोद्दस अट्ठदुप्पसेह इत्यस्य व्याख्यानमाहभा.[४१७८] दस जा अनुसज्जती चोद्दसपुवीए पढमसंघयणं ।
तेण परेण विहं जातित्थं ताव बोधव्वं ।।। व. यावत्प्रथमं संहननं चतुर्दशपूर्वी च तावदशप्रायश्चित्तानि अनुपजन्तिस्य । एतौ च प्रथमसंहननचतुर्दशपूर्विणौ समकं व्यवच्छिन्नौ तयोश्च व्यवच्छिन्नयोरनवस्थाप्यं पाराञ्चितं च व्यवच्छिन्न । ततः परेणानवस्थाप्यपाराञ्चितव्यवच्छेदादाक् अष्टविधप्रायश्चित्तं तावदनुपजतु अनुवर्तमानं बोद्धव्यम् । यावतीर्थं तीर्थव्यवच्छेदकाले च दुःप्रसभो नाम सूरिभविष्यति तस्मिन् कालगते तीर्थं चारित्रं च व्यवच्छे दयति । यदप्युक्तं देंता वि न दीसन्ति इत्यादि तत्राहभा. [४१७९] दोसु उ वोच्छिन्नेसु अट्टविहं देंतया करेंतु य।
न वि केई दीसंति वयमाणे भारिया चउरो । वृ. द्वयोरनवस्थाप्यपाराञ्चितयोरथवा प्रथमं संहननचतुर्दशपूर्विणो व्यवच्छिन्नयोरष्टविधं प्रायश्चित्तं ददतः कुर्वतौ वा केचित् न दृश्यन्ते इति वदति परस्मिन् प्रायश्चित्तं चत्वारो भारिता गुरुगासा:। भा. [४१८०] दोसु वि वोच्छिन्नेसु अट्ठविहं देंतया करेंता य।
पच्चक्खं दीसंते जहा तहा मे निसामेहि ।। वृ. द्वयोरन्तिमयोः प्रायश्चित्तोः प्रथमसंहननचतुर्दशपूर्विणोर्वा व्यवच्छिन्नयोरष्टविधं प्रायश्चित्तं ददतः कुर्वतश्च प्रत्यक्षं दृश्यन्ते यथा तथा मम कथयतो निशामयभा. [४१८१] पंचेव य निग्गंथा खलु पुलाग बकुसा कुसील निग्गंथा।
तह य सिणाया तेसिं पच्छित्त जहक्कम वोच्छं । वृ. पंचैव खलु निर्ग्रन्था भवन्ति तद्यथा-पुलाको बकुश: कुशीलः निर्ग्रन्थ: स्नातकश्च । एतेषां च स्वरूपं व्याख्या प्रज्ञप्तेरवसेयं । एतेषां प्रायश्चित्त यथाक्रमं वक्ष्ये प्रतिज्ञां पूरयतिभा. [४१८२] आलोयण पडिक्कमणे मीसविवेगे तहेव विउस्सग्गे।
एए छ पच्छित्ता पुलागनियंट्ठस्स बोधव्या ।। वृ. आलोचना २ प्रतिक्रमणं २ मिश्रं ३ विवेक: ४ तप: ५ व्युत्सर्ग ६ एतानि षट् प्रायश्चित्तानि पुलाकनिर्ग्रन्थस्य बोधव्यानि। भा. [४१८३] बउसपडिसेवगाणं पायच्छिन्ना हवंति सव्वेवि।
थेराण भवे कप्पे जिनकप्पे अट्ठहा होति ॥ वृ. सेवकयोर्बकुशस्य प्रतिसेवनाकुशीलस्य च सर्वाण्यपि प्रायश्चित्तानि भवन्ति । तौ च बकुशप्रतिसेवनाकुशीलौ स्थविराणां कल्पभवतो जिनकल्प उपलक्षणमेतत्। यथालन्दकल्प च तयोः प्रायश्चीत्तमष्टधा भवति अनवस्थाप्यपाराञ्चितयोरभावात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org