________________
उद्देशकः-१०, मूलं-२५१, [ भा. ४१९१]
४६५ उपायेन कुर्वन्ति ततो न दृश्यन्ते तथा चात्र धनिकेन दृष्टान्तो धारके सत्यसति च विभवे तौ च धारकौ द्वावपि सद्रिभवसाद्विभवौ विधिना मोच्यमानौ ऋणान्मुच्यते । एतदेव भावयतिभा.[४१९२] संभवविभवो उ जाहे मग्गितो ताहे देति त सव्वं ।
जो पुण असंतविभवो तत्थ विसेसो इमो होइ॥ व. धनिकस्य द्वौ धारको संभवतस्तद्यथा-सद्विभवोऽसद्विभवश्च । तत्र यः सद्विभवः सदैव याच्यते तत्सर्वं दातव्यं ददाति । यः पुनरसद्विभवस्तत्रायं वक्ष्यमाणो विशेषो भवति । तमेवाहभा. [४१९३] निरवेक्खो तित्रि चयती अप्पाण धनागमं च धारणगं।
सावेक्खो पुण रक्खइ अप्पाणधनं च धारणगं ।।। वृ. धनिको द्विधा- सापेक्षो निरपेक्षश्च ! तत्र सापेक्षो नाम यो धारकादसद्विभवात् धनमुपायेन गृह्णाति, निरपेक्ष: कर्कशग्रहेण धनस्य गृहीता तत्र निरपेक्षस्त्रीणि त्यजति, तद्यथा-आत्मानं धानगमं धारकं च । सापेक्षः पुनस्त्रीण्यपि रक्षयति । आत्मानं धनं धारणकं च कथमित्याहभा. [४१९४] जो उ असंते विभवे पाए धेत्तूण पडइ पाडेणं ।
सो अप्पाण धणंपि य धारणगं चैव नासेति ।। व. यो धनिको निरपेक्षोऽसद्विभवे असद्विभवस्य पदौ गृहीत्वा आत्मीयपादेन सह बध्वा पातेन पतित स आत्मानं धारणकं च नाशयति ततः स क्लिश्यमानो धनिकं जीविताद्वपरोप्य नश्येत् । यदि वात्मानं विनाशयेत् यद्वा उभयमपि ततस्त्रयस्यापि विनाशः। भा.[४१९५] जो पुण सहती कालं सो अत्थं लभते रक्खई तं च !
नकिलस्सइ सयंपी एव उवातो उसव्वत्थ ।। वृ.यः पुनर्धनिको धारणकमसद्विभवं ज्ञात्वा उपायेनास्माद्धनमुपादेयमिति विचिन्त्य कालं सहते वक्ष्यमाणप्रकारेण कालं विलंबयति सोऽर्थं तं च धारणकं रक्षति, न च स्वयमपि विलश्यति । एवमुपाय: पुरुषेण सर्वत्र कर्तव्यः । अथ कथं कालं सहते इत्याहभा.[४१९६] जो उधारेज्ज वद्धतं असतं विभवा सयं ।
कुणमाणो उ कमंतु निव्विसे करिसावणं ।। भा. [४१९७] अणमप्पेण कालेणं सो तगं तु विमोयए।
दिटुंते सो भणितो अत्थोवणउ इमो तस्स। वृ. यो धारणको रूपकशतं दातव्यं धनिकानुमत्या प्रतिमासं वा काकिनी वृद्ध्या वर्धमानं धारयति । स्वयं वासद्विभवो धनिकस्य गृहे कर्म कुर्वन् कार्षापणं निवेशयति धनिकस्य प्रवेशयति सोऽल्पेन कालेन तत् ऋणं मोचयति । एष दृष्टान्तोदयमर्थोपनयस्तस्य । भा. [४१९८] संतविभवो वि तुल्ला धिसंघयाण हि जे उ संपन्ना ।
ते आवण्णा सव्वं वहति निरनुग्गहं धीरा ।। वृ. ये धृतिसंहननाभ्यां सम्पन्ना युक्ताः सद्विभवैस्तुल्यास्ते धीराः सर्वमापन्नप्रायश्चित्तं निरनुग्रहमनुग्रहरहितं वहन्ति।
भा.[४१९९] संघयण धिती हीना असंतविभवेहिं होंति तुल्ला उ। 22/30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org