SearchBrowseAboutContactDonate
Page Preview
Page 941
Loading...
Download File
Download File
Page Text
________________ ४५६ व्यवहार - छेदसूत्रम् - २- १० / २५१ वृ. स्वयं संयममाचरति परं च नियमात् संयमं ग्राहयति । तथा संयमविषये सीदति स्थिरिकरणं उद्यतचरणं तु उपबृंहयति । एषा संयमसामाचारी । सम्प्रति संयममेव कथयति-भा. [४१३२] सो सत्तरसा पुढवादियाण घट्ट परिताव उद्दवणं । परिहरियव्वं नियमा संजमगो एस बोधव्यो । वृ. स संयमः सप्तदशः सप्तदशप्रकारो विस्तरतः । संक्षेपतः पुनः पृथिव्यादीनां षण्णां कायानां घट्टनं परितापनमपद्रावणं न नियमात्परिहर्तव्यमित्येष संयमो बोद्धव्यः । संयमक इति प्राकृतत्वास्त्वार्थो कप्रत्ययः उक्ता संयमसामाचारी । तप: सामाचारीमाह भा. [४१३३] पक्खियपोसहिएसुं कारयति तवं सयं करोति य । भिक्खायरियाए तहा निजुंजति परं सयं वावी || वृ. पाक्षिके ऽर्धमासपर्वणि पौषधिकेषु च अष्टम्यादिषु पर्वसु परं तपः कारयति स्वयमपि च करोति । तथा भिक्षाचर्यायां परं नियुक्ते प्रयोजनामपेक्ष्य स्वयमपि भिक्षाचर्यां गच्छतिभा. [४१३४] सव्वंमि बारसविहे निरंजड़ परं सयं च उज्जुत्तो । गणसामायारीए गणं विसीयं तु चोएति ।। वृ. सर्वास्मिन् द्वादशविधे तपसि यथायोगं परं नियुंक्ते, स्वयं च सर्वत्र यथाशक्ति उद्युक्त: । एष्ा तप:सामाचारी । गणसामाचार्यां गणं विषीदन्तं चोदयन्ति कथमित्याहपडिलेहण पप्फोडण बालगिलाणाइ वेयव्वइ चेव । सीदंतं गाहेई सयं च उज्जुत्तो एएसु ॥ भा. [४१३५] वृ. प्रत्युपेक्षणं चक्षुषा निरीक्षणं प्रस्फोटनमाखोटादिक मंतयोवलिग्लनादिवैयावृत्त्ये च सीदन्तं प्रत्युपेक्षणादि ग्राहयति कारयति । स्वयं च एतेषु स्थानेषु सततमुद्युक्त उक्ता गणसामाचारी, साम्प्रतमेककविहारसामाचारीमाह भा. [४१३६ ] एगलविहारादी पडिमा पडिवज्जती सयण्णं व । पडिवज्जावे एवं अप्पाण परं च विनती ।। वृ. एककविहारदय आदिशब्दात्प्रतिमागतविशेषानुष्ठानपरिग्रहः । एवं भूताः प्रतिमा स्वयं प्रतिपद्यन्ते अन्यं च प्रतिपादयति । एवं आचारविनयमात्मानं परं च विनयति, गत आचारविनयः । सम्प्रति श्रुतविनयमाह भा. [४१३७ ] सुतं अत्थं च तहा हिय निस्सेयं तहा पवाएइ । एसो चउव्विहो खलु सुर्याणिओ होइ नायव्वो । भा. [४१३८ ] वृ. सूत्रं प्रवाचयति तथा अर्थमपि हितं यत् यस्योचितं तत्तं प्रवाचयन्ति नेतरत् । तथा निःशेषं परिपूर्णमेष चतुर्विधः खलु श्रुतविनयो भवति ज्ञातव्यः । एतमेव व्याचष्टेसुत्तं गाइ उज्जुत्ते अत्थं च सुणावए पयत्तेण । जं जस्स होइ जोग्गं परिणामगमाइणं तु हियं ॥ निस्सेसमपरिसेसं जाव समत्तं तु ताव वाएइ । एसो सुविणतो खलु वोच्छ विक्खेवणाविनयं ॥ वृ. उद्युक्तः सन् शिष्यं सूत्रं ग्राहयति । एष सूत्रग्राहणविनयः तथा प्रयलेन शिष्यमर्थ भा. [४१३९] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy