________________
उद्देशकः-१०, मूलं-२५१, [ भा. ४१३९ ]
४५७ श्रावयति एपोऽर्थश्रावणविनयः परिणामकादीनां यत् यत् यस्य भवति योग्यं तत्तु तस्य हितं सूत्रतोऽर्थतश्च ददाति । एष हितप्रदानविनयः। तथा नि:शेष किमुक्तं भवति यावत्समाप्तं भवति तावद्वाचयति । एप नि:शेषवाचनाविनयः । उपसंहारमाह-एप चतुर्विधः खलु श्रुतविनयोऽत ऊध्वं विक्षेपणाविनयं वक्ष्ये । प्रतिज्ञा करोति। भा.[४१४०] अदिटुं दिटुं खलु दिटुं साहम्मियत्तविनएणं ।
चुयधम्म ट्ठावे तस्से व हियट्ठमब्भुढे ।। वृ. अदृष्टं अदृष्टधर्माणं दृष्टमिव दृष्टपूर्वमिव धर्म ग्राहयति। दृष्टं दृष्टपूर्वकं श्रावकं साधर्मिकत्वविनयेन विनयति प्रवाजयतीत्यर्थः । तथा च्युतधर्म धर्मात्प्रभ्रष्टं पुनर्धमें स्थापयति । तथा तस्यैव चारित्रधर्मस्य वृद्धये हितमभ्युतिष्ठति ४ । तत्र प्रथमभेदव्याख्यानार्थमाहभा. [४१४१] विन्नाण भावंमी खिवि पेरणे विक्खत्तु परसमया।
ससमयं तेणमभिच्छुभे अदिट्ठधम्मं तु दिट्ठवा !! व.विशब्दो नानाभावे क्षिपप्रेरणे परसमयाद्विनिक्षिप्य नानाप्रकारं प्रेर्यादृष्टधर्माणं दृष्टं वेति वाशब्द उपमायां। दृष्टधमांणमिव स्वसमयान्तेन स्वसमयाभिमुखभिक्षिपति। एनमेव चरमपदंभा.[४१४२] धम्मसभावो सम्मं दंसणं तु जेण पुचि न उलद्धं ।
सो होइ दिट्ठपव्वो तं गाहेई पुव्वदिटुंमि व ॥ . वृ. धर्मस्वभाव: सम्यग् दर्शनमित्येकार्थं तत्सम्यग् दर्शनं येन पूर्व न लब्धं स भवत्यदृष्टपूर्वोऽदृष्टपूर्वधर्मस्तं पूर्वदृष्टमिवाविविक्ता विश्रान्ततया पूर्वोपलब्धमिव धर्म ग्राहयति । अदृष्टं दृष्टमित्यस्यान्यथा व्याख्यानमाह। भा. [४१४३] जह भायरं च पियरं वा मिच्छादिट्ठपि गाहिसम्मत्तं ।
दिपव्वो सावग साहम्मि करेति पव्वावे ।। व. अदृष्टं अदृष्टं पूर्वदृष्टमिव धर्म ग्राहयति । किमुक्तं भवति ? यथा भ्रातरं पितरं वा सम्यक्त्वं ग्राहयति एवमदृष्टपूर्वं मिथ्यादृष्टमपि सम्यक्त्वं ग्राहयति-दिट्ठसाहम्मियत्ति विनएण इत्यस्य व्याख्यानमाह- दृष्टो नाम दृष्टपूर्वः । स च श्रावकस्तं साधर्मिकत्वविनयेन शिष्ययति सामिकं करोति प्रव्राजयतीत्यर्थः । चुयधम्मधम्मे ठावए इत्यस्य व्याख्यानमाहभा. [४१४४] चुयधम्मो चरित्तधम्मातो दंसणातो वा।
तंटावेइ तहिं चिय पुणो वि धम्मे जहोदिह्रो ।। वृ. च्युतधर्मो नाम भ्रष्टधर्मः । धर्माद्धृष्टो भ्रष्टधर्मः । राजदन्तादिदर्शनात् धर्मशब्दस्य परिनिपातः । कस्मात् च्युत इत्याह-चारित्रधर्मात् दर्शनाद्वा तं च्युतधर्माणं तत्रैव चारित्रधर्मे सम्यग् दर्शने वा यथोचिते पुनः स्थापयति । एष तृतीयभेदश्चतुर्थभेदमाहभा.[४१४५] तस्सत्ती तस्सेव उ चरित्तधम्मस्स वुड्डिहेतुं तु ।
वारेयणेसणादी न य गिण्हे सयं हियट्ठाए। वृ. तस्सेव हियट्ठमब्भुढे इति तस्येति तस्यैव चारित्रधर्मस्य वृद्धिहेतोरनेपणादि वाग्यति । हितार्थमभ्युत्तिष्ठतीति हितार्थाय न च स्वयमनेषादि गृह्णाति हितार्थायेत्युपलक्षणं तेन हिताय सुखाय क्षेमाय निःश्रेयसाय आनुगामिकोऽभ्युत्तिष्ठतीति द्रष्टव्यं । ततो हितादिपदानां व्याख्यानम्
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org