________________
उद्देशक:-१०, मूलं-२५१, [ भा. ४०९१]
४५१ भा. [४०९१] पढमगसंघयणथिरो बली य सरोरो च होइ नायव्यो।
एसा शरीरसंपया एत्तो वयणमि वुच्छामि॥ व. प्रथम संहननः स्थिर: स्थिरसंहननो ज्ञातव्यः । एपा चतुःप्रकारा शरीरसम्पदुक्ता। अत ऊर्ध्वमिदानी वचने सम्पदं व्याख्यामि तामेवाहभा. [४०९२] आदेज्ज महुरवयणो य अनिस्सियं वयणो तहा असंदिद्धो।
आदेज्जगभवको अत्थवगाढं भवे महरं ।। भा.[४०१३] अहवा अपरुसवयणो खीरासवमादिलद्धिजुत्तो वा।
निस्सिय कोहाईहिं अहवावी रागदोसेहिं॥ व. आदेज्जति पदैकदेश पदसमुदायोपचारादादेयवचन इति द्रष्टव्यमेवमन्यत्रापि । तथा मधुरवचनोऽनिश्रितवचनोऽसन्दिग्धोऽसन्दिग्धवचनः । तत्रादेय आदेयवचनो नाम ग्राह्यवाक्यः । अर्थावगाढं भवति मधुरं, मधुरं वचनं यस्यासौ मधुरवचनः । अथवा अपरुपवचनो यदि वा क्षीराश्रवादिलब्धियुक्तो मधुरवचनः । तथा निश्रितं क्रोधादीनामथवा रागद्वेषाणां निश्रामुपगतं गाथायां तृतीयाकरणविवक्षातो न निश्रितं वचनं यस्य स तथा असन्दिग्धवचनमाहभा. [४०९४] अव्वत्तं अफुडत्थं अथ बहुत्ता व होति संदिद्धं ।
विवरीयमसंदिद्धं वयणे सा संपया चउहा।।। वृ.अव्यक्तवचो व्यक्ताया अभावतः अस्फुटार्थमक्षराणां सनिवेशविशेषतो विवक्षितार्थसम्पदाकत्वाभावात्, अर्थबहुत्वाद्वा भवति। सन्दिग्धं तद्विपरीतमसंदिग्धं तद्वचनं यस्य सोऽसंदिग्धवचन: । एपा वचने सम्पच्चतुर्धा चतुःप्रकारा । सम्प्रति वाचनासम्पदं चतुःप्रकारामाहभा. [४०९५] वायणभेया चउरो विजिओद्देसण, समुदिसणयाओ।
परिनिव्वय निवायाए निज्जवणे चेव अत्थस्स ।। वृ. वाचनाया भेदाश्चत्वारस्तद्यथा-विचिन्त्य सम्यक् योग्यतां परिनिश्रित्योद्देशनं १, विचिन्त्यैव समुदेश (न) समुद्देशनता च २, तथा परिनिर्वाप्य वाचयति ३, अर्थस्य निर्यापना ४ । तत्र विचिन्त्योद्देशनाहभा.[४०९६] तेणेव गुणेणं तू वाएयव्वा परिक्खिउंसी।
सा उद्विसति वियाणेउं जं जस्स उ जोग्गं तं तस्स ॥ वृ. अयमस्य वाचना योग्योऽयमयोग्य इति तेनैव वाचनाविषयेन गुणेन शिष्याः परीक्ष्य वाचयितव्या नान्यथा ततो यत् यस्य योग्यं तत्तस्य विज्ञाय उद्दिशति । अत्रैव प्रकारान्तरमाहभा.[४०९७] अपरिणामगादी वियाणिउ अभयाणे न वाएत्ति ।
जह आममट्टिय घडे, अंबेव नछुब्भती खीरं ।। वृ.अपरिणामिकादीन आदिशब्दादतिपरिणामिकपरिग्रहः छेदसूत्राणामभाजनानि विज्ञाय न वाचयति नोदेतीत्यर्थः । यथा आमे अपक्चे मृत्तिका घटे पक्के वा अम्लेन क्षीरं क्षिप्यते । भा. [४०९८] जइ छुब्भती विनस्सइ नस्सइ वा एवमपरिणामादी।
नोद्देसे च्छेयसुत्तं समुद्दिसे वाचितं चेव ॥ वृ. यद्यम्ले क्षीरं क्षिप्यते तदा विनश्यते यदि वा आममृत्तिकाघटे घटस्य भङ्गतो विनश्यति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org