________________
४५२
व्यवहार-छेदसूत्रम् -२-१०/२५१ एवमपरिणामादौ च्छेदसूत्रं विनश्यति नश्यति वा ततो नोद्दिशति एषा विचिन्त्योदेशनता, समुद्दिशेदपि तदेव योग्यं नान्यत् । एपा विचिन्त्य समुद्देशन् ।
भा. [४०९९]
परिनिव्ववियावाए जत्तियमेत्तं तु तरइ उप्पेउं । जागदिते परिचिते ताव तामुद्दिसति ॥
वृ. परिनिर्वाप्य वाचयति । किमुक्तं भवति ? जाहकदृष्टान्तेन यावन्मात्रमवग्रहीतुं शक्नोति तावन्मात्रमग्रतेनपरिचिते उद्दिशति । एषा परिनिर्वाप्य वाचना, अर्थस्य निर्यापणामाहभा. [४१०० ] निज्जवरगो अत्थस्स जो वियाणाइ अत्थ सुत्तस्स ।
अत्थेण व निव्वहती अत्यंपि कहेइ जं भणियं ॥
वृ. अर्थस्य निर्यापक इति यद्भणितं तस्यामर्थः । यो नाम सूत्रस्यार्थं कथ्यमानं विजानाति यदि वा अर्थेन निर्वहति अर्थावधारणाबलेन सूत्रपातो निर्वाहमुपयाति तस्यार्थमपि कथयति, आस्तां सूत्रं ददातीत्यपि शब्दार्थः । सम्प्रति मतिसम्पदं चतुर्भेदामाहमइसंपयचउभेया उग्गह ईहा अवाय धारणा य । उग्गहमति छब्या तत्थ इमा होइ नायव्वा ।!
भा. [४१०१]
वृ. मतिसम्पच्चतुर्भेदा । तद्यथा - अवग्रह इहा अवायः धारणा च । तत्रावग्रहमवग्रहः अनिर्देश्य सामान्यमात्रग्रहणमीहनमीहा अवग्रहीतस्यार्थस्यासद्भूतविशेष परित्यागेन सद्भूविशेषादानाभिमुखो बोधविशेषः ! अवायो निश्चयः । धारणा स्मृतिस्तत्रावग्रहमतिरियं वक्ष्यमाणे षड्भेदा भवति ज्ञातव्या । तामेवाह-
भा. [४१०२]
खिप्प बहुविहं व धुवअनिस्सिय तह य होई असंदिद्धं । sues एविहा अवायमवि धारणा चेव ॥
वृ. १ क्षितं २ बहु ३ बहुविधं ४ ध्रुव ५ निश्रित ६ असन्दिग्धमवगृह्णाति । एवं अवग्रहस्य षट् भेदं एवं षट् भेदा ईहा अवायो धारणापि च प्रत्येके ज्ञातव्या । तत्र क्षिप्रमवग्रहं व्याख्यानयति । भा. [४१०३] सीसे कुतित्थीप व उच्चरियमेत्तमेवाउगिण्हे ।
तं खिप्पं बहुगं पुण पंच व छ स्सत्त गंथसया ॥
वृ. शिष्येन कृतीर्थिना वा यत् उच्चरितमात्रमेवावगृह्णाति तत् क्षिप्रमवग्रहणमुच्यते । बहुकं पुनरवग्रहणमिदं यत् पञ्च षट् सप्त वा ग्रन्थशतान्येकवारमवगृह्णाति;
भा. [४१०४]
बहुहानेगपयारं जह लिहति वधारए गणेइ विया,
अक्खाणगं कहे सद्दसमूहं व नेगविहं ॥
वृ. बहुविधमवग्रहणं नाम अनेकप्रकारं यथा स्वयं लिखति अन्येन भण्यमानमवधारयति । अन्यच्च संख्येयवस्तु गणयति । अथवा नानापुरुषाश्रितं नानातोद्याश्रितं वा शब्दसमूहमनेकविधं अनेकप्रकारं प्रत्येकमवगृह्णाति एतत् बुहविधमवग्रहण् ।
भा. [ ४१०५ ] न विस्सरति धुवं ता अनिस्सियं जत्र पोत्थए लिहिया, अनभासियं च गेण्हए निस्संकिय होइ संदिद्धं ॥
वृ. यन्नैव विस्मरति तत् ध्रुवम् । अनिश्रितं नाम यन्त्र पुस्तके लिखितमपेक्षते अभाषित वा परैर्व्याजेन उदीरितं वा यदवगृह्णाति तदनिश्रितं निःशङ्कितं भवत्यसन्दिग्धं । एवं ग्रहणस्य
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org