________________
व्यवहार-छेदसूत्रम्-२- १०/२५१ निवृत्त एतदेव व्याचष्टे-अचञ्चलो वृद्धशीलो ज्ञातव्यः उक्ता आचारसम्पच्चतुर्धाः । भा. [४०८४] बहुसुय परिचियसुत्ते विचित्तसुत्ते य होइ बोधव्ये ।
घोसविसुद्धिकरे वा चउहा सुयसंपया होइ ।। तृ. श्रुतसम्पच्चतुर्धा चतुःप्रकारा भवति, तद्यथा-बहुश्रुतः परिचितसूत्रः विचित्रसूत्रो धोषविशुद्धिकर: । सम्पत्सद्वतोभेदेनाभिधानं श्रुतश्रुतववतोः कथंचिद्भदेदात्। एवमुत्तरत्र पूर्वं च परिभावनीयं । तत् बहुश्रुतमाहभा.[४०८५] बहुसुत्तजुगपहाणे अभितर बाहिरं सुयं बहुहा।
होइ व सद्दग्गहणा चारित्तं वि सुबहुयंपि ।। वृ. यस्य बहुधा बहुप्रकारमभ्यन्तमङ्गप्रविष्टं बाह्यमङ्गं बाह्य श्रुतं भवति विद्यते । घोषविशुद्धिकर इत्यत्र च शब्दग्रहणात् सुबहुककं चारित्रमपि यस्य स युगप्रधानो बहुश्रुतः । भा.[४०८६] सगनामं व परिचियं उक्कमउक्क मतो बहूर्हि विगमेहि ।
ससमयपरसमएहिं य उस्सग्गोववायतो चित्तं ।। वृ. यथा श्रुतं उत्क्रमतः क्रमेण च तथा क्रमेण उत्क्रमेण वा एकैकपदमोचनेन इत्यादिभिरपि बहुनिर्गमैः स्वनामेव स्वाभिधानिव परिचितं सूत्रं सपरिचितसूत्रस्तथा यस्य स्वसमयपरसमयाभ्यां स्वसमयपरसमयवक्तव्यताभ्यामुत्सर्गापवादेन उत्सर्गानुविद्धमपवादानुविद्धं विचित्रं सूत्रं सविचित्रसूत्रः । घोपविशुद्धमाहभा. [४०८७] घोसा उदत्तमादी तिहिं विसुद्धं तु घोसपरिसुद्धं !
एसा सुत्तोवसंपय सरीरउवसंपयं अतो वुच्छं। वृ. घोपा उदात्तादयस्तैर्विशुद्धं घोपविशुद्धं तत्करणशीलो घोपविशुद्धिकर: एषा चतुर्धा श्रुतोपसम्पत् । अत ऊर्ध्व शरीरोपसम्पदं वक्ष्ये । तामेवाहभा. [४०८८] परीणाहो तह अनुत्तप्पया सरीरंमि ।
पडिपुण्ण इंदियएहि य थिरसंघयणो य बोधव्वो॥ वृ. शरीरस्य आरोहः समपरिणाहः तथा अनुतप्यता अलज्जनीयता तथा परिपूर्णमिन्द्रयैः स्थिरसंहननश्चतुर्थो बोद्धव्यः । तत्रारोहपरिणाहमाह ॥ भा. [४०८९] आरोहो दिग्घत्तं विक्खंभो वि जइ तेत्तितो चेव।
आरोह परिणाहे उवसंपया एस नायव्वा ।। वृ. आरोहो दीर्घत्वं परिणामो विष्कंभो विशालता । तत्र यावनारोहस्तवान् यदि विष्कंभो भवति तदा एषा उपसम्पत् आरोहपरिणाहे ज्ञातव्या। अनुतप्यतामाहभा.[४०९०] तवु लज्जाए धाऊ अलज्जणीयो अहीन सव्वंगो।
होइ अनुतप्पे सो अविगलइंदियपडिपुण्णे॥ वृ. त्रपुधातुर्लज्जायां वर्तते त्रपौपि लज्जायामिति वचनात् । तत उत्प्राबल्येन त्रप्यते येन तत् उत्तप्यं। न उत्रप्यमनउत्तप्यमलज्जनीयं तथा च शरीरशरीरमतोरभेदमधिकृत्याह-अलज्ज - नीय: किमुक्तं भवति अहीनसर्वाङ्ग एप भवत्यनुत्रप्यः । तथा अविकलानि स्पष्टं सम्पूर्णानि इन्द्रियाणि यस्य सोऽविकलेन्द्रियः । परिपूर्णः परिपूर्णेन्द्रिय उच्यते । स्थिरसंहननमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org