________________
९२
व्यवहार - छेदसूत्रम्-१-१/१ [भा.२७०] पडिलेहणसज्झाएएमेवय हीणअहियविवरीयं,
दोसेहिंवा विभुंजइ, गारत्थियढङ्करभासा । वृ-एवमेवाश्यकोक्तेनैव प्रकारेणप्रतिलेखनस्वाध्यायेचहीनमधिकं विपरीतंचकुर्वत आत्मीयान शिक्षयते नतु तं परीक्ष्यमाणमित्यादि पूर्ववत् तत्र प्रतिलेखनायां हीनाधिकता नाम यत् कालतो हीनामधिकां चाप्रतिलेखनां करोति, खोटकादिभिर्वा हीनाधिकां वा, विपरीतता नाम प्रभाते यन्मुखपोतिकादिक्रमेणनप्रत्युपेक्षतेकिंतुस्वेच्छयायदिवापूर्वाह्नरजोहरणनिःपश्चिमंप्रत्युपेक्षते अपराह्ने तु सर्वप्रथममित्यादि, स्वाध्याये हीनता नाम यद्यप्राप्तायामपि कालवेलायां कालप्रतिक्रमणं करोति, अधिकता यदिक्रांतायामपिकालवेलायांन कालं प्रतिक्रामति, वंदनादिक्रियांवा तदनुगतां हीनाधिकां करोति, विपरीतता पौरुषीपाठमतिक्रांतायां पौरुष्यांपठतिउत्कालिकंपौरुष्यामिति, तथा भोजनद्वारे आलोकादिविधिना सूत्रोक्ते न न भुंक्त दोषैर्वापि, अमुग्सुरं अवचवचं अहुयमवलंबियमित्यादि विपरीतरूपैर्भुक्त, तत्रात्मीयान्तथा जानान् शिक्षयते नतु परीक्ष्यमाणमित्यादिपूर्ववत्, भाषाद्वारे या अगारस्थितभाषा गृहस्थभाषा च ढड्डरभाषा स्थूरस्वरभाषा तां भाषते, तत्रात्मीयान् तथारूपता भाषमाणान् शिक्षयते, न पुनः परीक्ष्यमाणमित्यादि विभाषा पूर्ववत्, शेषाणि त्रीणिद्वाराण्येकगाथवा प्रतिपादयति . [भा.२७१] थंडिलसामायारीहवेतिअतरंगतनपडिजणे;
अभणिती भिक्खन हिंडइअनेसणादी च पिल्लेइ । वृ- स्थंडिले समाचारी पादप्रमार्जनडगलकग्रहणा, दिगालोकनादिरूपां हापयति परिभवति विलुपतीत्यर्थः, तब तथा सामाचारी विलुपत आत्मीयान् साधून शिक्षयते । न परीक्ष्यमाणमित्यादि प्राग्वत् गतं विचारद्वारं, ग्लानद्वारमाह । अतरंगतं असमर्थ म्लानमित्यर्थः न प्रतिजागर्ति नापि तस्य म्लानस्य खेलमल्लकादिकं समर्पयति । अत्रापि स्लानमप्रतिजाग्रत आत्मीयान् साधून शिक्षयते नतु परीक्ष्यमाणमित्यादिविभाषापूर्ववत्गतंग्लानद्वारं, भिक्षाग्रहणद्वारमाह ।अभणितः सन् भिक्षांन हिंडते भणितोपि च इपाद्धिडिते सति प्रतिनिवर्तते, अनेषणादि वा प्रेरवति प्रवर्त्तयति किमुक्तं भवति । अनेषणीयां भिक्षांगृह्णाति, आदिशद्वात्कौटिल्येनचोत्पादयति । इत्यादिपरिग्रहः,तंच तथा भिक्षाग्रहणे प्रवर्तमानमपि न शिक्षयति, कित्वात्मीयान् साधून इत्यादि प्राग्वत्, तस्य चागमो द्वाभ्यां स्थानाभ्यां भवति, ततस्तेएव द्वेस्थाने प्रतिपादयति ।। {भा.२७२] जयमाणपरिहवंते, आगमनं तस्स दोहिं ठाणेहिं;
पंजरभग्गअभिमुहे आवस्सगमादि आयरिए । ' वृ तस्योपसंपद्यमानस्यागमनं द्वाभ्यां स्थानाभ्यां भवेत् । तद्यथा यतमानेभ्यः परिभवद्भ्यश्च, यतमाना नाम संविग्नाः परिभवंतः पार्श्वस्थादयः, उक्तंच -
सोपुन जयमाणगाण वासाहूणमूलातोआगता होज्जा।
परिभवंताण मूलातो, आगतो होजापरिभवंतानापासत्था ।। वृ- इतितत्रयोयतमानसाधूनां मूलादागतः सज्ञानदर्शनार्थेपंजरभग्नोवासमागतोभवेत्, यः पुनः परिभवतां मूलादागतःस चारित्रार्थमुद्युतुकामः समागता भवेत् अनुगंतुकामी वाज्ञानदर्शनार्थमिति । अथवा यो यतमानेभ्यः समागतः सपंजरभग्नः, यः पुनः परिभवद्भ्यः उद्यंतुकामश्चारित्रर्थं समागतः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org