________________
उद्देशक : १. मूलं : १. [भा. २६६ ]
[ भा. २६६ ]
आवस्सय पडिलेहण, सज्झाए भुंजणाय भासाय; वियारे गेलपणे भिक्खगहणे परिच्छंति ।
९१
बृ- आवश्यक प्रतिलेखने स्वाध्याये भोजने भाषायां विचारे बहिर्भूमी ग्लाने भिक्षाग्रहणे च परस्परमाचार्यशिष्यों परीक्षेते, तत्रावश्यकादिपदान्यधिकृत्य यथाचार्यः शिष्यं परीक्षते तथोपदर्शयति । केई पुव्वनिसिद्धा, केई सारइ तन्त्र सारेइ; संविगो सिक्खमगमुत्तावलिमो अणाहोहं ।
[भा. २६७ ]
वृ- केचित्साधवी वरवृषभादयस्तस्योपसंपत्कालात् पूर्वमेव आवश्यकादिपदेषु ये दोषास्तेभ्यो निषिद्धा, यथा आचार्या इदमिदं च माकार्षुरिति ते तथैव वर्त्तमानास्तिष्ठति, य पुनः केचित् अभिनवदीक्षितत्वाद् विना कारणेन प्रमाद्यंति तान् गुरुः सारयति सम्यग् यथोक्तानुष्ठाने प्रवर्तयति, तं पुनरुपसंपन्नं प्रमादस्थाने वर्तमानमपि न सारयति, तत्र यदि स उपसंपद्यमानः संविग्नो भवति, ततः सोऽप्रतिनोद्यमानः सन्नेवं चिंतयति, येषु स्थानेष्वहं प्रमादं कृतवान् तेष्वेव स्थानेष्वन्यान् प्रमाद्यत आचार्याः सारयंति अहो अहमनाथः परित्यक्त एतैरिति चिंतयित्वा संविग्नविहारमिच्छन् आचार्यपादमूले गत्वा मुत्तावलिमो इति निपातः पादपूरणे छिन्नमुक्तावलीप्रकाशान्यश्रूणि विमुंचन् पादयोः पतित्वा शिक्षां मायते । याचते यथा मामप्य त्यादरेण भगवंतः शिक्षयंत्तां मा शरणमुपागतं परित्यजत एवं परीक्षानिर्वहतः परिग्राह्यः इतरस्तु परित्याज्यः तत्रावश्यके यथा परीक्षा कर्तव्या तथोपदर्शयति । हीनाहियविवरीए सतिवि बले पुव्वते चोएइ ।
[ भा. २६८ ]
अप्पणचोवोदेन्ती नममंति इहं सुहं वसिउं ।।
Jain Education International
वृ - हीनं नाम यत् कायोत्सर्गसूत्राणि मंदमंदमुच्चार्य शेषसाधुषु चिरकालं कायोत्सर्गस्थितेषु पश्चात् सकायोत्सर्गे तिष्ठति इत्यादि अधिकं नाम कायोत्सर्गसूत्राण्यतित्वरितं त्वरितमुच्चार्यानुपेक्षाकरणार्थं पूर्वमेव कायोत्सर्गे तिष्ठति, रत्नाधिकेचोत्सारित कायोत्सर्गे पश्चाच्चिरेण स्वं कायोत्सर्गमुत्सारयति इत्यादि, विपरीतं नाम प्रादोषिकान् कायोत्सर्गान् प्राभातिकानिव करोति, प्राभातिकान् प्रादोषिकानिव इत्यादि हीनं याधिकं च विपरीतं समाहारो द्वंद्वस्तस्मिन् प्रमादतो वर्तमानान् अथवा सूर्ये किल अस्तमितमात्रे एव निर्व्याघाते सवैरपि साधुभिराचार्येण सह प्रतिक्रमितव्यं, यदि पुनराचार्यस्य श्राद्धाधिधर्म्मकथादिभिर्व्याघातस्ततो बालवृद्धग्लानासहान् निषद्याधरं च मुक्त्वा शेषः सूत्रार्थस्मरणार्थं कायोत्सर्गेण स्थातव्यं, ये पुनः सत्यपि बले पूर्वं कायोत्सर्गे न तिष्ठति । तान् पूर्वमतिष्ठतश्चोदयति, यः पुनः परीक्षते तं प्रमाद्यंतमपि न शिक्षयति, ततो यदि स एवं व्यवस्यति, यथात्मीयानू, प्रमाद्यतश्चोदयति न मामिति सुखमिह वसितुमिति, स इत्थंभूतः पंजरभग्नो ज्ञातव्यो न प्रतीच्छनीयः ।।
[ भा. २६९ ]
जो पुन चांइज्जते दगुण नियत्तए ततो ठाणा;
भाइ अहंभे चत्तो, चोएह ममंपि सीयंतं ।
वृ- यः पुनश्चोद्यमानान् शिक्षमाणान् शेषसाधून् दृष्ट्रा ततः स्थानात्निवर्त्तते, भणति च गुरुपादमूले गत्वा मन्युभराक्रांतो गद्गदस्वरेण अहं युष्मच्छरणमागतोपि भो भगवन् युष्मामिः शिक्षाचा अप्रसादतस्त्यक्तः । न चैतत् भगवतां परमकरुणापरीतचेतसामुचितंतस्मात्प्रसादमाधाय मामपिसीदंतं शिक्षयध्यमिति, एष इत्थंभूतः प्रतिग्राह्यः कृता आवश्यकमधिकृत्य परीक्षा संप्रति प्रतिलेखन स्वाध्यायभोजनभाषाद्वाराणि अधिकृत्य तामाह
For Private & Personal Use Only
www.jainelibrary.org