SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ९० व्यवहार - छंदसूत्रम् - १-१ / १ तमुपसंपद्यमानं योप्याचार्यः प्रतीच्छति, सोपिप्रायश्चित्तभाक्ततः शिष्यप्रतीच्छकाचार्याणां प्रायश्चित्तं विवक्षुरिदमाह, सीसायरिए इत्यादि, शिष्ये आचार्य प्रतीच्छके च प्रायश्चित्त विधीयते प्रायश्चित्तदानविधिरुच्यते इतिभावः, प्रतिज्ञातमेव निर्वाहयति । [भा. २६२] एगे गिलाणगे वा, तिहवि गुरगाउ सीसमादीणं; सेसे सिस्से गुरुगा, पडिच्छलहगा गुरूसरिसं । वृ- एकस्मिन् एकाकिनि गुरो ग्लाने वा तत्र गच्छे तिष्ठति यदि समागतः शिष्यप्रतीच्छको वा आचार्येणा तथासमागतः सन् यदि प्रतीच्छितस्तदा शिष्यादीनां शिष्यप्रतीच्छकाचार्याणां त्रयाणमपि प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः यः पुनरन्यः शेषोऽपरिणताल्पाधारस्थविरबहुरोगमंदधर्म्मपरिवारलक्षणः, तस्मिन् शेषे यदि समागतः शिष्यः ततस्तस्य प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः अथ प्रतीच्छ्कः समागतस्तर्हि तस्य लघुकाश्चत्वारो लघुमासाः गुरूसरिसमिति, गुरोरपि शिष्यप्रतीच्छकसदृशं प्रायश्चित्तं किमुक्तं भवति यदि शिष्यं प्रतीछति ततः प्रायश्चित्तं चत्वारी गुरुमासाः अथ प्रतीच्छकं तर्हि चत्वारो लघुका इति । [भा. २६३] सीसपडिच्छे पाहुड, च्छेदो राइंदियाणि पंचेव । आयरिस्सवि गुरुगा, दोवेए पडिच्छ्रमाणस्स । वृ- यदि प्राभृते गुरोः केनापि सहाधिकरणे वर्त्तमाने शिष्यः प्रतीच्छको वा समागतः तदा तस्य शिष्यस्य प्रतीच्छकस्य वा प्रायश्चित्तं पंच रात्रिंदिवानि पर्यायस्य च्छेदः, आचार्यस्य पुनर्द्वावप्येतौ प्रतीच्छतः प्रतिगृह्णतः प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासां तदेव प्रथमभंगे निर्गमनदोषा उक्ताः आगमनमशुद्धं तदा भवति, यदा प्रजिकादिषु प्रतिबध्यमानः समागतः तत्रापिप्रतिबंधनिमित्तं प्रायश्चितं सूत्रानुसारतो वक्तव्यं गतः प्रथमोभंगः द्वितीयभंगीप्येतादृश एव नवरं तत्रागमनं शुद्धं क्वचिदपि व्रजिकादौ प्रतिबंधाकरणात् तृतीयचतुर्थभंगावनुक्रमेणाह - [ भा. २६४ ] Jain Education International एतद्दोसविमुक्कं वइयादीपडिबद्धमायातं, दाऊणपच्छित्तं पडिबद्धपि पडिच्छेज्जा । वृ- एतैरनंतरोदितैरधिकरणकारित्वविकृतिलांपट्यादिदोषैविमुक्तमेतेन निर्गमनं शुद्धमुक्तं, तथा व्रजिकादौ अप्रतिबद्धं क्वचिदपि प्रतिबंधमाकुर्वंतमायातमेतेन गमनं शुद्धमुपदर्शितं एष चतुर्थो भंगः एष एवोत्सर्गतः श्रेयानिति ज्ञापनार्थं तृतीयभंगात्पूर्वमुक्तः । एवंभूतं प्रतीच्छंत् तृतीयभंगमाह - दाउणेत्यादि । यस्त्वधिकरणकारित्यादिदोषविनिर्मुक्तो निर्गतः केवलं व्रजिकादिषु प्रतिबध्यमानः समागतस्तमप्यपवादपदेन यत् व्रजिकादिषु प्रतिबंधकरणम भूत्तन्निमित्तं प्रायश्चित्तं दत्वा प्रतीच्छेद् । [ भा. २६५ ] सुद्धं पडिच्छिऊणं, अपडिच्छणा लयतिनिदिवसानि; सीसे आयरिए वा, परिच्छा तत्थिमा होइ । वृ- शुद्धं निर्गमनमागमनदोषरहितं प्रतीच्छ्य प्रतिगृह्य त्रीन् दिवसान् यावत् परीक्षेत् किमेष धर्मश्रद्धावान् किंवा नेति, यदि पुनर्न परीक्ष्यते ततोप्य परीक्षणे लहुयत्ति मासलघुप्रायश्चित्तं, आचार्यांतराभिप्रायेण चतुर्मासलघु, साच परीक्षा उभयथापि शिष्य आचार्यों परीक्षते, आचार्याः शिष्यः उभयथापि च परीक्षा आवश्यकादिपदैस्तथा चाह सिस्से इत्यादि, तत्र तस्मिन् उपसंपद्यमाने प्रतीच्छिते सति शिष्यं आचार्ये च परस्परमियमावश्यकादिपदैर्वक्ष्यमाणा परीक्षा भवति तामेवाह - For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy