________________
४२८
व्यवहार- छेदंसूत्रम् - २- १०/२५१ सर्वसंख्यया सप्त । एवं प्रमाणा यत्र च ये गच्छाः संस्तरति एतत् जघन्यं वर्षाकालप्रायोग्यं, वृषभक्षेत्रं उत्कृष्टं मध्यमं च यथा ऋतुबद्धे काले इदृशेषु बहुगच्छोपग्रहकरेषु वृषभग्रामेषु सत्सु यदि वा एतेष्वेव साधारणेषु क्षेत्रेषु न परस्परं भण्डनं कर्तव्यं सचित्तादिनिमित्तं, किंतु सीमाच्छेदेन वस्तव्यं, । तुभंतो मम वाहिं तुझ सचित्तं ममेतरं वावि । आगंतुगवत्थव्वा थी पुरिसकुलेसु व विरेगो ।
[ भा. ३९४८ ]
बृ- परस्परं वागन्तिको व्यवहार एवं कर्तव्यः । मूलग्रामस्यान्तर्मध्ये यत् सचित्तादि तत् युष्माकं, अस्माकं तु बहिः प्रतिवृषभादिषु अथवा युष्माकमुभयत्रापि सचित्तमस्माकमितरत् अचित्तं यदि वा युष्माकमागन्तुका अस्माकं वास्तव्या अथवा युष्माकं स्त्रियोऽस्माकं पुरुषा यदि वा एतेषु कुलेषु यो लाभः स युष्माकमेतेषु तु कुलेष्वस्माकमिति ।
[भा. ३९४९ ]
एवं सीमच्छेदं करंति साहरणंमि खेत्तंमि । पुव्वं ठितेसु जे पुन पढा एज्जा हि अन्नेउ ।।
वृ- एवमुक्तेन प्रकारेण साधारणे क्षेत्रे सीमाच्छेदं कुर्वन्ति ये पुनरन्ये तत्र पूर्वे स्थितेष्वन्येषां क्षेत्राणामभावे समागच्छन्ति ।
[भा. ३९५० ]
खेत्ते उवसंपन्ना ते सव्वे नियमसो उबोधव्वा ।
आभव तत्थ तेसिं सचित्तादीण किंभवे ।।
बृ- ते सर्वे नियमसो नियमेन क्षेत्रत उपसम्पन्ना ज्ञातव्याः । अथ तत्र क्षेत्रे तेषां तथा स्थितानां सचित्तादीनां मध्ये किमाभाव्यं भवति किं वा नेति तत्राह
[भा. ३९५१]
नालपुरुस संधु मित्ताय वयंसया सचिते । आहारमत्तगतिगं संथारगा वसहि मचित्ते ।। उग्गहंमि परे एवं लभते उअखेत्तितो । वत्थगादि विदिन्नंतु कारणंमि वि सोलभे ॥
[भा. ३९५२ ]
वृ- नालबद्धाः पूर्व संस्तुताः, पश्चात्संस्तुता मित्राणि वयस्याश्च एतत्सचित्ते परे परकीये अवग्रहे अक्षेत्रिको लभते । अचित्ते आहारमशनादिकं मात्रकत्रिकमुच्चारमात्रकं प्रश्रवणमात्रकं खेलमात्रकंच, संस्तारकं परिशाटिरूपं वा वसतिं च वस्त्रादिकं पुनर्दत्तं लभते, कारणेऽनिस्तरणादिलक्षणे पुनरदत्तमपि । [भा. ३९५३ ] दुविहा सुयोवसंपय अभिधारते तहा पढ़ते य । एक्केक्कावि यदुविहा अनंतर परंपरा चेव ।।
वृ- द्विविधा श्रुतसम्पत् तद्यथा - अभिधारयति पठति च एकैका द्विविधा अनन्तरा परम्परा च । तत्राभिधारयत्नानन्तरा नाम एकः साधुः किंचिदाचार्यमभिधारयति योऽसावभिधार्यमाणः सन् । किंचिदन्यमभि संधारयति, परंपरा नाम एको यतिः कंचिदाचार्यमभिसंधारयति सोऽप्यभिधार्यमाणोऽन्यमभि धारयति सोऽप्यन्यं, सोऽप्यन्यमेवमनियतं परिमाणं । तदेवाह
[ भा. ३९५४ ]
[ भा. ३९५५ ]
Jain Education International
एत्थं सुयं अहीहमि, सुयवं सो य अन्नहं । वच्चंतो सोभिधारंतो सोवि अन्नत्तमेव वा ।। दोहं अनंतरा होति, तिगमादी परंपरा । सहाणं पुनरेतस्स केवलं तु निवेयणा ||
For Private & Personal Use Only
www.jainelibrary.org